This page has not been fully proofread.

१०४८
 
न्यायकोशः ।
 

 
द्विधेः । सप्तभङ्गिनयापेक्षो हेयादेयविशेषकृत् ॥ ( सर्व० सं० पृ० ८४
आई०
० ) । सप्तभङ्गीनयस्तु ( १ ) स्यादस्ति (२) स्यानास्ति ( ३ )
स्वादस्ति च नास्ति च ( ४ ) स्यादवक्तव्यः (५) स्यादस्ति चावक्तव्यः
(६) स्यानास्ति चावक्तव्य: (७) स्यादस्ति च नास्ति चावक्तव्यः
इति । अत्र स्याच्छब्दः खस्वयं निपातस्तिङन्त प्रतिरूपकोनेकान्तद्योतकः
( सर्व० सं० पृ० ८४ आई० ) । स्यात् इत्यव्ययम् तिङन्तप्रति-
रूपकम् कथंचिदर्थकम् । स्यादस्ति कथंचिदस्ति इव्यर्थः । एवमप्रेपि
( शारी० मा० टी० २/२/३३ पृ० ३४ ) । यथा घटः स्वस्वरूपे-
णास्ति पटस्वरूपेण नास्ति इत्यादि । एवम् एकत्व नित्यत्वादिष्वपीममेव
सप्तभङ्गीनयं योजयन्ति ( शारीर० भा० २/२/३३ ) । अयं भावः ।
घटादेर्हि सर्वात्मना सदेकरूपत्वे प्राध्यात्मनाप्यस्येव सः इति तत्प्राप्तये
यत्नो न स्यात् । अतो घटत्वादिरूपेण कथंचिदस्ति प्राप्तत्वादिरूपेण
कथंचिन्नास्ति इत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयम् ( शा० भा० टी०
र० प्र० २ २ ३३ ) इति । एवम् एकत्वमनेकत्वं चेति द्वयमादाय
(१) स्यादेकः (२) स्यादनेकः ( ३ ) स्यादेकोनेकश्च ( ४ ) स्याद-
बक्तव्यः (५) स्यादेकोवक्तव्यः (६) स्यादनेकोवक्तव्यः (७) स्यादे-
कोनेकचावक्तव्यश्च इति । तथा स्यान्नित्यः स्यादनित्यः इत्याद्यूयम्
( शारी० मा० टी० रत्नप्र० २।२।३३ ) ।
 
-
 
स्वगतम् – १ स्वस्मिन्विद्यमानम् । यथा पटश्च स्वगतरूपादेः समषायि-
कारणम् ( त० सं० ) इत्यादौ ग्रन्थे स्वगतशब्दस्यार्थः । यथा वा
वेदान्तिमते एकमेवाद्वितीयम् ब्रह्म ( छा० उ० ६।२।१ ) इत्यादिश्रुतौ
एकमेव इतिशब्दार्थस्वगत भेदाभेदनिवृत्तिघट कखगतशब्दार्थः । २ नाटक-
शास्त्रज्ञास्तु अश्राव्यं वाक्यं स्वगतम् इत्याहुः ।
 
स्वतः प्रामाण्यम् – विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्त हेत्वजन्यत्वं प्रमायाः
स्वतस्त्वम् ( सर्व० सं० पृ० २८३ जैमि० ) ।
 
स्वतन्त्रः – स्वतन्नो भगवान्विष्णुर्निर्दोषोशेषसगुणः ( सर्व० सं० पृ० १२८
पूर्णप्र०) ।