2023-02-20 00:57:45 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०४७
न्तरत्वमिष्टमेव इति । २ योगशास्त्रज्ञास्तु अनुभवप्राप्तिपूर्वा वृत्तिः इत्याहुः ।
अत्र सूत्रम् अनुभूतविषयासंप्रमोषः स्मृतिः (पात० पा० १ सू० ११) ।
सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात् प्रभवन्ति
( भोजवृत्ति० ) (भा० ) । २ धर्मज्ञास्तु धर्मशास्त्रम् । अत्रायें स्मृति-
शब्दस्य व्युत्पत्तिः स्मर्पते वेदधर्मोनेन (करणे फिन्) इति । तथ
वेदार्थानुभवजन्यं वेदार्थानुषादकं धर्मे च प्रमाणं मुनिप्रणीतं वाक्यरूपम् ।
यथा मनुस्मृतियाज्ञवल्क्यस्मृत्यादिरित्याहुः । तदुक्तं मनुना वेदोखिलो
धर्ममूलं स्मृतिशीले च तद्विदाम् ( मनु० अ० २ श्लो० ६ ) ( गौ०
१।१ ) इति । अत्रोक्तम् श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः
( मनु० अ० २ श्लो० १०) इति । इयं स्मृतिरपि सात्त्विकराजस-
तामसभेदेन त्रिविधा । तत्र सात्त्विक्यो यथा वासिष्ठं चैव हारीतं व्यासं
पाराशरं तथा । भारद्वाजं काश्यपं च सात्त्विक्यो मुक्तिदाः शुभाः ॥
( पद्मपु० उत्त० अ० ४३ ) इति । राजस्वस्तामस्यस्तु तत्रैवान्वेषणीयाः ।
विस्तरभयादत्र न संगृहीताः ।
-
स्यन्दनम् - १ प्रस्रवणम् । तच्च संनिकृष्टदेशस्य द्रवद्रव्यस्य च संयोगानु-
कूलव्यापारः ( वाक्य० १ पृ० ९ ) । यथा स्यन्दनासमवायिकारणं
द्रवत्वम् इत्यादौ ग्रन्थे स्यन्दनशब्दस्यार्थः । अत्र सूत्रम् द्रबत्वात्
स्यन्दनम् (बै० ५।२।४) इति । तदर्थश्च स्यन्दनं द्रवत्वादसमवायिकार-
णादुत्पद्यते । तथा हि क्षितौ पतितानामपां बिन्दूनां परस्परसंयोगेन मह-
जखमवयवि स्रोतोरूपं यज्जायते तस्य यत् स्यन्दनं दूरसंसरणं तद्रवत्वा-
दसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणात् अप्सु समवायिकारणेषु
(वै० उ० ५/२१४ ) । २ गमनत्वव्याप्यजातिमत् । यथा भ्रमणं
रेचनं स्यन्दनोर्ध्वज्वलनमेव च ( भा०प० श्लो० ७ ) इत्यादौ स्यन्दन-
शब्दस्यार्थः । ३ जलम् 8 रथश्च इति काव्यज्ञा आहुः । ५ तिनिश-
वृक्षः ( तिवस ) इति भिषज आहुः (अमरः २।४।२६ ) ।
स्याद्वादः - (वादः ) यत्र वादे दिगम्बरा: जैनाः सर्वत्र सप्तभङ्गीन-
याख्यं न्यायमवतारयन्ति सः । स्याद्वादः सर्वचैकान्तव्यागात्किवृत्तचि