2023-02-20 00:54:13 by ambuda-bot
This page has not been fully proofread.
म्यायकोचः ।
( ग० व्यु० ५/२१ ) । अत्र विभाग वृक्षः । तनिष्ठः क्रियावतः
पर्णात्सकाशात् भेदः । तत्प्रतियोगितायाः पर्णनिष्ठाया अवच्छेदिका पतन-
किया तज्जन्यविभागाधयत्वं वृक्षस्येति । अत्र क्रियायां स्वनिष्ठमेदप्रति-
योगितावच्छेदकत्वविशेषणेन पर्णादे: स्वनिष्ठवृक्षादिविभागजनकपतनापा-
दानत्वनिरास इति ज्ञेयम् (ग० व्यु० ५/२१) । [ग ] परकीयक्रिया-
जन्य विभागाश्रयत्वम् ( का० व्या० ९ ) । यथा वृक्षात्पर्णे पततीत्यादौ
वृक्षादेरपादानता । अत्र पञ्चम्या अन्योन्याभावप्रतियोगितावच्छेदकत्वं
विभागजनकत्वं चार्थः । विभागे अन्योन्याभावे च वृक्षोन्वेति ( का०
व्या० ९) । तथा च वृक्षनिष्ठमेदप्रतियोगिताबच्छेदकं तनिष्ठविभाग-
जनकं च यत् पतनं तदाश्रयः पर्णमित्याकारको बोध: ( ग० व्यु ०
५/२१) । [घ] अवधित्वम् । यथा वृक्षाद्विभजत इत्यादी वृक्षादेर-
पादानता (ग० व्यु० ५।२१ ) । अत्र वृक्षाद्यवधिक त्वविशिष्टविभाग-
निरूपितमेवाश्रयत्वमाख्यातेन बोध्यते । अतो वृक्षः स्वस्माद्विभजते इति
न प्रयोगः (ग० व्यु० ५/२१ ) । विशेषस्तु पञ्चमीशब्दव्याख्याने
व्यक्तीभविष्यति । शाब्दिकमते अपादानं च [ ङ ] ध्रुषमपायेपादानम्
( पाणिनिसूत्रम् १/४/२४ ) । अपाये विभागे ध्रुवं निश्चलम् प्रकृत-
पञ्चम्यर्थ विभाग जनकत्वान्वयिक्रियाशून्यमित्यर्थः ( का० व्या ० ९) ।
तत्रोक्तं हरिणा अपाये यदुदासीनं चलं वा यदि वाचलम् । धुबमेवा-
तदावेशात्तदपादानमुच्यते ॥ पततो ध्रुव एवाश्चो यस्मादश्वात्पतत्यसौ ।
तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ॥ उभावध्यधुवौ मेषौ यद्यप्यु-
भयकर्मजे । विभागे प्रविभक्ते तु किये तत्र व्यवस्थिते ॥ मेषान्तर-
क्रियापेक्षमवधित्वं पृथक् पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक्
पृथक् ॥ इति । अपाये गतिविशेषे सति यहुबम् अवधिभावोपगमाश्रयत्वे
सति तदतिरिक्तस्यावधित्वोपयोगिव्यापारस्यानाश्रयं तदपादानमिति
सूत्रार्थः । अस्य पदकृत्यं शब्देन्दुशेखरे स्पष्टम् । [च ] विश्लेषाश्रयत्वे
सति विश्लेषजनकधात्वर्थतत्तत्कियानाश्रयः ( बै० सा० ) । [ 8 ]
· अवधिभावोपगमब्यापारम् ( उ०म० ) । अपादानं त्रिविघम् । निर्दिष्ट -