This page has not been fully proofread.

तृतीयावृत्तावुपोद्वातः ।
 
६ अन्यच, सामान्यत उपलभ्यमानेभ्यस्तत्तच्छास्त्रगतप्राकरणिक प्रथम-
ग्रन्थेभ्य: संज्ञादिशब्दान्समुपचित्य क्रियमाणेन सूचीग्रन्थानां कोशग्रन्थानां
वा निर्माणेन न वर्तमानो ज्ञानराशिः समुपचितो भवति न वा प्रतिभाप्र-
चुरा नवीना विचारास्तेषु प्रध्यन्ते न च बुद्धिवैभवकृतानि विवेचनानि तत्र
दृश्यन्ते । एवंविधानां कोशग्रन्थानां विरचनं शब्दात्मक मैन्द्रजालकमेव केवलम् ।
एतदोषपरिहारकर्मणि प्रस्तुते न्यायकोशे बहुतरः प्रयत्नः कृतः । न तत्र केवलं
शब्दानामर्थः संप्रदर्शितो न वा केवला व्याख्याः संगृहीताः । किं तु भूयसां
शब्दानां तत्र तत्र स्थलेषु परिदृश्यमाना अर्थमेदाः प्रदर्शिताः कथंकथं कदा-
कदा तेर्थभेदा जातास्तत्प्रदर्शितं भिन्नभिन्नानां व्याख्यानामर्थानां च तुल-
नात्मकं विवेचनं कृतम् । न्यायशास्त्रविषयकाणामपि न केवलानां प्राध-
मिकानां ग्रन्थानामेतद्वन्थविरचनकर्मणि निरीक्षणं कृतं किंतु व्याख्यात्म-
काटीकात्मकाश्च पाण्डित्यपूर्णा दुरवगाहा दुर्लभा अपि ग्रन्धाः समुपयुक्ताः ।
शब्दानां समुपचयोपि तथा कार्येन परिपूर्णतया वा कृतो यथा न्याय-
शास्त्रीयो न कोपि संज्ञाशब्द: पारिभात्रिको वा शब्दः प्रायो विगलितः ।
तथा चेतरशास्त्राणामपि प्रधानतमाः शब्दा: संज्ञाश्चात्र कोशे संगृहीता ये
न्यायशास्त्राध्ययनकर्मणि बहुश उपयुज्यन्ते येपामर्थश्चावश्यकतयावगन्तव्यो
भवति । तथाहि कोशेम्मिन्प्रतिक्षणमुपलम्यमानानां प्रत्यक्षानुमानव्याप्ति-
परामर्शादिशब्दानां न केवलं प्रमुखतया वर्तमाना द्वित्रा व्याख्याः संगृहीताः
किंतु पण्डितवर्यैर्न्यायशास्त्रपारदृश्वभिर्दत्ताः सर्वा अपि व्याख्याः संकलिता
येनाव्यास्यतिव्यास्यादिदोषपरिहारार्थं कालेकाले कृताः शब्दभेदा अर्थभेदाश्च
समीचीनतया विदुषां निदर्शनपथमवतरेयुः । तथा चोपाधिचातुर्विध्यान्यथा-
सिद्धिप्रभेदपाकजोत्पत्यादिस्थलगतानि विवरणानि विदुषामध्यापकानामधीया-
नानां च मनसि तत्तच्छब्दगतानर्थ भेदान्व्याख्या मेदान्भेद हेतूंश्च स्फुटीकुर्युरिति
न्यायकोशस्यास्योपयुक्तता कोशावलोकनं कुर्वद्भिर्नैयायिकैरित रैर्वा स्वानुभवेनैव
कथयितुं न्याय्या । इतरशास्त्रेष्वपि एवंविधानां तत्तच्छास्त्रदृष्टानां पारिभाषि-