2023-02-20 00:57:44 by ambuda-bot
This page has not been fully proofread.
१०४४
न्यायकोशः ।
समुदीयमानस्य स्फोटरूपस्यैव नित्यतया तत्रैव नित्यसंबन्धस्य योग्यतया
वृत्तिमत्त्वमुचितम् इति । तथा च योगसूत्रभाष्यकृयास आह तदेतेषा-
मर्थसंकेतेनावच्छिन्नानामुपसंहृतघ्त्रनिकमाणां य एको बुद्धिनिर्भासस्तत्पदं
वाचकं बाच्यस्य संकेत्यते तदेकं पदमेकबुद्धिविषय एकप्रयत्ना-
क्षिप्तमभागमकमवणे बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते इति ।
स्फोटश्च पूर्वपूर्ववर्णानुभवसहितच रमवर्णानुभवव्यङ्ग्यः । अत्र स्फोट-
स्याभिव्यक्तौ प्राकृतो ध्वनिः कारणम् । चिरचिरतरस्थितौ तु प्राकृ-
तध्वनिजात वैकृतध्वनिः कारणम् इति विवेको ज्ञेयः ( ल० म० १ ) ।
स च शाब्दिकमतप्रसिद्धः । अत्र महाभाष्यम् अथ गौरित्यत्र कः शब्दः ।
येमोच्चारितेन सानालाङ्गूलककुदखुरविषाणानां संप्रत्ययो भवति स शब्द
उच्यते इति । तथा च भागवते (१२।६।४०) स्फोटश्रवणस्यात्मलिङ्गत्व-
मुक्तम् शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृक् । येन वाग्व्यज्यते
यस्य व्यक्तिराकाश आत्मनः ॥ ( मञ्जूषायाम् ) इति । नैयायिकमते तु
स्फोटो नाङ्गीक्रियत एव । यद्यङ्गीक्रियेत तदापि वर्णवत्सोनित्य एव इति
मन्तव्यम् । अयं भावः । पूर्वपूर्ववर्णगोचरसंस्कारसहितश्चरमवर्णोपलम्भ एव
स्फोटव्यञ्जकः इति शाब्दिकैः स्वीकरणीयम् । तथा च नैयायिकमतेपि ता-
दृशचरमवर्णोपलम्भेनैवार्थप्रत्ययोपपत्तावलं स्फोटाङ्गीकारेण (न्या० म० ४
पृ० ३२) (त० प्र० ४ पृ० १२७) इति । अथ स्फोटभेदा उच्यन्ते ।
अष्टौ स्फोटा भवन्ति (१) वर्णस्फोटः (२) पदस्फोट: (३) वाक्यस्फोटः
(४) अखण्डपदस्फोटः (५) अखण्डवाक्यस्फोट: (६) वर्णजातिस्फोटः
(७) पदजातिस्फोट: (८) वाक्यजातिस्फोटश्च इति । तत्र वाक्यस्फोट एव
वास्तवः अन्येषां त्यवास्तवत्वम् इति वैयाकरणानां सिद्धान्तः (वै० सा०
पृ० ५९ ) । अत्र वर्णस्फोटमारम्याखण्डवाक्यस्फोटपर्यन्तं पश्च व्यक्ति-
स्फोटा भवन्ति । शिष्टास्तु त्रयो जातिस्फोटा भवन्ति इति बोध्यम् । अत्र
मीमांसका वेदान्तिनश्च प्रत्येकपदशक्तिसाचिव्येनाकाङ्कादिवशात्पदाद्वाक्या-
र्थबोधस्तदा पदस्फोटः । यदा तु तन्निरपेक्षैव सा बोधं जमयति तदा
बाक्यस्फोट: : इत्याहु: (वै० सा० द० पृ० ४२५) । पुनश्च स्फोटो द्विविधः
सखण्ड: अखण्डच । तत्र पदवाक्ययोरखण्डत्वं चाविद्यमानावयवकत्वम् ।