2023-02-20 00:57:44 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
स्पार्शनम् - त्वगिन्द्रियजन्यं प्रत्यक्षम् । यथा द्रव्यस्पार्शनप्रत्यक्षं प्रति स्पर्शः
कारणम् इत्यादौ मन्थे स्पार्शनशब्दस्यार्थः । स्पार्शनं च द्विविधम्
स्पर्शविषयकम् स्पर्शवद्रव्यविषयकं चेति ।
स्पृहा – ( दोषः ) धर्माविरोधेन प्राप्तीच्छा ( गौ० वृ० ४ । १ । ३ ) । यथा
पुष्पेभ्यः स्पृहयति इत्यादौ स्पृहधात्वर्थः । यथा वा स्पृहावती वस्तुषु
केषु मागधी ( रघु० ३।५ ) मिथुने स्पृहावती ( कुमार० ) इत्यादौ
चस्पृहाशब्दार्थः ।
▬▬
स्फुटत्वम् - १ तद्विषयक जिज्ञासानधीनप्रतिपत्तिविषयत्वम् । यथा दोष-
लक्षणे कृते दुष्टहेतुलक्षणस्य स्फुटत्वेन लाभः इत्यादौ स्फुटत्वशब्दस्यार्थः
( ग० हेत्वा० सामा० लक्ष० १ ) । २ ज्योतिषज्ञास्तु सूर्यादिग्रहाणां
मेषादिराशिष्वंशविशेषस्थितिः तत्तदंशकलादिगतिश्च इत्याहुः । ३ विका-
शनम् ४ विदलनं च इति काव्यज्ञा आहुः ।
स्फोटः --वर्णातिरिक्तो वर्णाभिव्यङ्गयोर्थप्रत्यायको नित्यः शब्दः ( सर्व० सं०
पृ० ३०० पाणि०) ( तर्कप्र० ख० पृ० १२६ ) । अत्र व्युत्पत्तिः स्फुव्यते
व्यज्यते वर्णैः इति स्फोटः इति स्फुटव्यर्थोस्मात् इति स्फोटः इति च
यौगिकशब्दाभिधेयत्वं शब्दब्रह्मणः सूचयति ( वै० सा० पृ० २१२) ।
स्फोटत्वं च स्फुटत्यभिव्यक्तीभवत्यर्थोस्मात् अनेन वा इति व्युत्पत्त्या अर्थ-
प्रकाशकत्वम् । प्रकाशश्च ज्ञानम् । तथा च अर्थनिष्ठविषयताप्रयोजकश-
क्तिमत्त्वं पर्यवस्यति । वर्णस्यैव तत्त्वाभ्युपगमे वर्णस्फोट: पदादीनां तत्त्वा-
भ्युपगमे तु पदादिस्फोटः इति व्यवहारः ( वै० सा० ८० पृ० २१२ )।
स्फोटस्यावश्यकत्वमाह । पदानां वर्णसमूहरूपाणामायुविना शितयैकक्ष-
णावस्थायित्वाभावाद प्रत्यक्षस्वं तावन्निरूढम् । तथा च पदाप्रत्यक्षे
पदार्थस्मृतेः शाब्दबोधहेतोः असंभवः स्यात् । अतः स्फोटः कश्चनाङ्गी-
कर्तव्यः यतोर्थप्रत्ययः इति । अथ वा वर्णानां प्रत्युच्चारणमन्यथा प्रतीय-
मानतया अनित्यत्वेन आशुविनाशिनां च तेषां मेलनासंभवेन तत्समुदा-
यस्यापि संबन्धित्वाभावेन प्रत्येकं वर्णेषु वृत्तौ व्यभिचारेण च पूर्वपूर्व-
वर्णानुभवजन्यसंस्कारबीजव व्यन्त्यवर्णजनितपरिपाकशालिनि हृदये शठिति
.