2023-02-20 00:57:44 by ambuda-bot
This page has not been fully proofread.
१०४०
न्यायकोशः ।
[ख] अन्यथाकृतस्य पुनस्तदवस्थापादकः संस्कारः ( त० सं० ) ।
पूर्वसंयोगविजातीयसंयोगनाशकत्वे सति पूर्वसंयोग सजातीयसंयोगजनकः
इति समुदितार्थः । अत्र क्रियावारणाय सत्यन्तं दलं दत्तम् । विभाग-
वारणाय विशेष्यदलम् ( वाक्य० गु० पृ० २२ ) । [ग] ] आश्रये
पूर्वावस्थापादकः संस्कारः । स यथा आकृष्टतरुशाखादेः पूर्वावस्थां
जनयति ( प्र० प्र० ) । [घ ] स्वोत्पत्त्यवस्थापादको गुणः ।
लायुः -सूक्ष्मनाडी ।
स्नेह: - १ ( गुणः ) [ क ] स्नेहत्वजातिमान् (प्र० प्र०) । स्नेहश्चिकणता
जलमात्रवृत्तिः चणकचूर्णादिव्यङ्ग्यश्च । पयोघृततैलादौ स्नेहोपलम्भस्तु
पयआद्यन्तर्गतजलोपाधिक: जलगत एवोपलम्यते । स्नेहो जलपरमाणु-
गतो नित्यः जलयणुकादिरूपकार्यगतः अनित्यः ( त० कौ० )
( प्र० प्र० ) ( प्रशस्त० २ पृ० ३३ ) ( त० सं० ) ( भा०प० )
( वाक्य० ) । अत्र भाष्यम् स्नेहोपां विशेषगुणः संग्रहमृजादिहेतुः ।
अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ( प्रशस्त० २ गु० पृ० ३३)
इति । मृजा शुद्धिः । अत्र विचार्यते । न च सांसिद्धिकद्रवत्वादेव संग्रह-
संभवे किं स्नेहेन इति वाच्यम् । चणकचूर्णादिना जलद्रवस्त्रयोरुत्कर्ष-
स्यानाधानादन्यस्य च संग्रहहेतोरभावे तदुत्कर्षस्या कस्मिकत्वप्रसङ्गात् ।
अतः स्नेह आवश्यकः (प० च० ) इति । [ ख ] चूर्णादिपिण्डीभाष-
हेतुर्गुणः ( त ० सं० ) । यथा प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया
इत्यादौ तैलसंयुक्तजलगतः स्नेहः । जले स्नेहो द्विविधः प्रकृष्टस्नेहः
अपकृष्टनेहव । तत्र तैलादौ प्रतीयमानः प्रकृष्टस्नेहो दीपादिज्वालादे-
रनुकूलः । पानीयगतस्तु अप्रकृष्टस्नेहो वह्निं नाशयति ( मु० गु०
पृ० २३२ ) । [ग] स्निग्धधीर्यद्विशिष्टार्थे नेहश्चिकणता च सः
( ता० र० श्लो० ४८) । अत्रेदं बोध्यम् । सत्यपि द्रवत्वे द्रुतसुवर्णा-
दिभिः सत्यपि च स्नेहे हिमकरकादिभिः पिण्डीभावाजननात् स्नेह-
सहितमेव द्रवस्वं पिण्डीभावकारणम् ( त० व० पृ० २३० ) इति ।
यद्वा पिण्डीभावे स्नेहस्यैवासाधारणकारणत्वम् । न तु जलादिगत-