2023-02-20 00:57:44 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०३९
स्थावरः- पृथिव्यप्तेजोवायुवनस्पतयः स्थाषरा: (सर्व० सं० पृ० ७०आई०) ।
स्थितिः—१ स्वोत्पत्त्यवस्था । यथा स्थितिस्थापकः इत्यादौ स्थितिशब्दस्यार्थः ।
२ स्वभावः इत्यन्य आहुः । ३ वसतिः इति काव्यज्ञा आहुः । ४ गति-
निवृत्तिः । यथा तिष्ठति इत्यादौ इति शाब्दिका आहुः । ५ वृत्ति-
रहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः स्थितिः
( सर्व० सं० पृ० ३६६ पात०
)
स्थितिबन्धः - यथा अजागोमहिष्यादिक्षीराणामेतावन्तम नेहसं माधुर्य-
स्वभावादप्रच्युतिस्थितिः । तथा ज्ञानावरणादीनां मूलप्रकृतीनाम् आदि-
तस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोव्यः परा स्थितिः इत्याधु-
क्तकाला दुर्धानबत्स्वीय स्वभावादप्रच्युतिस्थितिः ( सर्व० सं० पृ०
७७-७८ आई० ) ।
●
स्थितिस्थापकः – ( गुण: ) [ क ] क्रियाविशेषजनकः क्रियाविशेषजन्यः
स्वजन्यक्रियानाश्यो गुणविशेष: ( दि० गु० पृ० २३३ ) । ऋजुत्वा-
द्यापादकः संस्कारप्रभेदोयम् कार्मुककटा दिपृथिवीमात्रवृत्तिः अतीन्द्रियः
अनित्यश्चेति ( त० सं० ) । तस्यातीन्द्रियले मानं च आकृष्टतरुशाखा-
दीनां परित्यागे पुनर्गमनं स्थितिस्थापकसाध्यम् इति ( मु० गु० १०
२३३ ) । तथा च शरादीनां नमनोत्तरं त्यागे यथास्थाननियतसंयोग-
जनककर्मजनकतया सिद्ध्यति सः ( प० मा० ) । स च आकृष्टतरुशा-
खादौ स्पन्दं प्रति कारणमपि भवति । केचित्तु अयं स्पर्शवद्विशेषवृत्तिः ।
तेन पृथिव्यादिचतुष्टये वर्तते इत्याहुः ( प्र० प्र० ) ( भा०प० श्लो०
१६० ) ( त० कौ० ) ( दि० गु० पृ० १९३ ) । तल्लक्षणं च
पृथिवीमात्र समवेतसमवेत संस्कारस्वव्याप्यजातिमत्वम् ( सि० च० गु०
पृ० ३५ ) । अत्र भाष्यम् । स्थितिस्थापकस्तु स्पर्शषद्रव्येषु वर्तमानो
घनावयवसंनिवेश विशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथा-
वस्थितं स्थापयति । स्थावरजङ्गमेषु विकारेषु धनुःशाखादन्तशृङ्गादिषु
सूत्रचर्म वस्त्र कम्बलादिषु मुग्नसंवर्तितेषु तस्य कार्ये संलक्ष्यते । नित्या-
नित्यत्व निष्पत्तयोस्यापि गुरुत्ववद्रष्टव्याः ( प्रशस्त ० गु० पृ० ५३ ) इति ।
०