This page has not been fully proofread.

न्यायकोशः ।
 
१०३७
 

 
( मनु० अ० ९ श्लो० २, ३, ११) इति । अन्यत्राप्युक्तम् । (अ० ५ श्लो०
१४७-१६६) । अधिवेत्तारं प्रत्याह आज्ञासंपादिनीं दक्षां वीरं प्रियवादि-
नीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ ( याज्ञ० अ० १
लो०
१० ७६ ) इति । व्यभिचारे स्त्रिया मौण्ड्यमधःशयनमेव च । कदनं
च कुवासश्च कर्म चावस्करोज्झनम् ॥ ( याइ० अ० १ को० ७०
मिताक्षरायां नारदः ) । अविभाज्यं स्त्रीधनं च अभ्यस्यभ्यावाहनिकं दत्तं
च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षडिधं स्त्रीधनं स्मृतम् ॥ ( मनु०
अ० ९ लो० १९४) । पितृमातृपतिश्रावृदत्तमभ्ययुपागतम् । आधि-
वेदनिकायं च स्त्रीधनं तरप्रकीर्तितम् ॥ ( याज्ञ० अ० १ श्लो० १४८ ) ।
स्त्री पुरुषभेदस्तु रतिमञ्जर्याम् पद्मिनी चित्रिणी चैव शनिी हस्तिनी
तथा । शशो मृगो वृषोश्वश्व स्त्रीपुंसोर्जातिलक्षणम् ॥ इति । ३ लिङ्ग-
रूपसंज्ञा विशेषः । यथा अटवी इत्यादिशब्देषु । अत्रेदं विज्ञेयम् ।
खट्टाटवीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः । तत्र प्रकृत्यर्थे योनिमत्व-
रूपस्त्रीत्वस्यायोग्यतयानन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मा-
म्तरमेव तत्र परंपरासंबन्धेनार्थगततया भासते इति श्रीपतिदत्तोतं
युक्तम् । तद्भाने मानाभावात् (ग० व्यु० स्त्री० पृ० ११९) इति ।
स्त्रीलिङ्गम् – (नाम ) [ क ] स्त्रीलिङ्गत्वेन परिभाषितं पदम् । यथा तटी
इत्यादिपदम् । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । स च तटी इत्यादौ
स्त्रीत्वेन डीबादिप्रत्ययः । [ ख ] कचित् योन्यादिमत्त्वलक्षण स्त्रीत्व-
वाचकं पदम् । यथा न विप्रा वेदमुच्चरेत् इत्यादौ विप्रापदम् । अत्र टाबा-
दिना प्रत्ययेनैव ( न तु प्रकृत्या ) स्वार्थस्य योन्यादिमत्त्वलक्षणस्त्रीत्वं
प्रकृत्यर्थेनुभूयत इति ज्ञेयम् ( श० प्र० श्लो० ५४ टी० पृ०६९)।
स्थलम् – १ [ क ] तत्तत्पक्षसाभ्यादिवाचकप्रयोगः । यथा पर्वतपक्षकवह्नि-
साभ्यकघूमहेतुकस्थले इत्यादौ ग्रन्थे स्थलशब्दस्यार्थः । [ ख ] तत्त-
द्व्यवहारजम्पशाब्दबोधविषयः । यथा पर्वते वहिसाध्यकस्थलं हि पर्वतो
वह्निमान् इति शब्दबोधविषयो वह्निमपर्वतादि । २ उदाहरणवाक्यम्
इति केचिद्वदन्ति । ३ जलशून्योक्कत्रिमो भूभागः । यथा ऊषरं स्थलम्
इति काव्यज्ञा आहुः ( अमरः २।१।५) । ४ गजपृष्ठगतं काष्ठासनम् ।
 
-
 
-