This page has not been fully proofread.

१०३६
 
न्यायकोशः ।
 
स्त्रोभः – १ [ क ] अर्थशून्यो गानादिस्वरपरिपूरणार्थः शब्दविशेषः ।
यथा सामवेदे इडा होई इत्यादिः । इदं च वर्णमात्रस्तोमस्य लक्षणम् ।
वाक्यस्तोभस्य तु नव विधा भवन्ति आशास्तिः स्तुतिसंख्याने प्रणवः
परिदेवनम् । प्रैषमन्वेषणं चैव सृष्टिरास्थानमेव च ॥ ( सानो गान-
प्रन्थ ० ) इति । [ ख ] अधिकत्वे सत्यृग्विलक्षणवर्णः स्तोमः ।
[ग] सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं कालक्षेपमात्र हेतुं
शब्दराशि स्तोभ इत्याचक्षते (जै० न्या० अ० ९ पा० २ अधि० ११) ।
[ष ] वेदान्तिनस्तु व्यर्थाक्षरवत्वम् । यथा अस्तोभमनवद्यं च इत्यादि-
सूत्रलक्षणे स्तोभशब्दस्यार्थः इत्याहुः (तस्वप्रका० १/१/१ पृ० ३) ।
२ हेलनम् । ३ स्तम्भनम् ( हेमच० ) ।
 

 
स्तोमः – १ आत्मगुणाविष्करणम् । यथा स्तोमयति इत्यादौ सामस्तोमम-
स्तौषन् ( श्रुतिः ) इति पुराकल्पे च स्तोमशब्दस्यार्थः । २ समूहः ।
३ यज्ञः । ४ स्तवः । ५ धनम् । ६ मस्तकम् । ७ शस्यम् ।
८ लोहाग्रदण्ड: ( वाच० ) ।
 
स्त्यानम् – चित्तस्याकर्मण्यत्वम् ( सर्व० सं० पृ० ३५५ पातु० ) ।
स्त्रीत्वम् – १ योनिमत्वम् । यथा अजा अश्वा शूद्रा श्यामा चपला ब्राह्मणी
गौरी सुकेशी गर्भिणी इत्यादौ । अत्र प्रातिपदिकप्रकृतिकाः स्त्रियाम्
( पाणि० ४ । १ । ३ ) इत्यधिकारे विहिताष्टाबादयः स्त्रीत्वं प्रकृत्यर्थ-
विशेषणतया बोधयन्ति ( ग० व्यु० स्त्रीप्र० पृ० ११८ ) । २ भार्या -
त्वम् । यथा आचार्यानी मनावी अर्थी शूद्री इत्यादौ । अत्र स्त्रीप्रत्यय-
प्रतिपाद्यम् भार्यात्वं च संबन्धविशेषः । तत्रैव निरूपकत्वेन प्रकृत्यर्था
न्वयः ( ग० न्यु० स्त्री० पृ० ११९) । तथा च आचार्यनिरूपक-
भार्यात्ववती इति शाब्दबोधः । एवमुत्तरत्रापि बोध ऊसः । अत्र स्त्रीपुं-
धर्मश्च अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च
सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥ पिता रक्षति कौमारे भर्ता रक्षति
यौवने । रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातव्यमर्हति ॥ अर्थस्य संग्रहे
चैनां व्यये चैव नियोजयेत् । शौचे धर्मेन्नपत्त्यां च पारिणाझस्य चेक्षणे ।