This page has not been fully proofread.

न्यायकोचः ।
 
( त० मा० ५१ ) । सौगतास्त्वपसिद्धान्तं दूषणं न मन्यन्ते
( गौ० १० ५/२/२३ ) ।
 
अपहवः --[क] अबाधितपरोक्तविपरीतबोधनाय तदुपपादकाभावप्रति-
पादनेच्छा । यथा कलिङ्गेषु दृष्टोसि। नाहं कलिङ्गालगामेत्यादावयन्ताप-
इवः ( ग० म्यु० ल० ) । अत्र च कलिङ्गाधिकरणकदर्शनादेरुपपादकं
कलिङ्गगमनादिकम् । तेन विना तदसंभवात् । अत्यन्तापहवः स्वरूपस-
नेव ( न तु ज्ञातः ) लिट्साधुतानियामकः ( ग० ० ० ) ।
[ ख ] सत्वेन ज्ञातस्यापि वस्तुनः असत्वेन कथनम् । स द्विविधः
शब्दतोर्यतश्चेति । तत्र मिथ्यैव तत् इति शब्दतः । अर्थतस्तु नाभि-
जानाम्यहम् । तत्र तदा न मम स्थितिः इति ( बाच० ) ।
अपादानत्वम्-( कारकम् ) यद्धातूपस्थाप्ययादृशार्थे विग्रहवाक्यस्थपञ्चम्या
यः स्वार्थोनुभाषयितुं शक्यः तस्य तद्धातूपस्थाप्यतादृशक्रियायामपादानत्व-
मुच्यते । यथा वृक्षात्पतित इत्यादौ वृक्षादेरपादानत्वम् ( श० प्र०
७९ ) । अपगमाय आदीयते अवधित्वेनेति व्युत्पत्तिः ( बाच० ) ।
अपादानशब्दस्तु तत्तत्कर्मानषिकरणीभूते तत्तत्कर्मजन्यविभागाश्रये शक्त
इत्यवधेयम् । वृक्षात्पतित इत्यस्माद्वाक्यात् वृक्षावधिक विभागानुकूळपतन-
कर्ता इत्यन्वयबुद्धौ धातूपस्थाप्यपतने पञ्चम्युपस्थाप्यो विभागः खानु-
कूलत्वसंबन्धेन प्रकार इति स विभाग एव तत्रापादानत्वमिति विज्ञेयम्
( श० प्र० ७९ ) । अत्रावधित्वं च स्वरूपसंबन्धप्रभेदः पदार्थान्तरं
वेख्यन्यवेतत् । अपादानत्वं च [ क ] क्रियानाश्रयत्वे सति तज्जन्य-
विभागाश्रयत्वम् ( ग० अव० ) । परसमवेत क्रिया जन्य विभागाश्रयत्व-
मित्यर्थः । यथा भूभृतो गङ्गाषतरतीत्यादौ भूभृतो गङ्गासमवेतक्रियाजन्य-
विभागाश्रयत्वादपादानत्वम् । गङ्गायामतिध्यातिवारणाय परसमवेतेति
क्रियायां विशेषणम् (श० प्र० ६) । वृक्षात्पर्णे पततीत्यादौ पर्णक्रियया
वृक्षपर्णयोर्विभागो जायते । तत्र किया पर्णमात्रनिष्ठा विभागस्तूभय-
निष्ठ इति वृक्षस्म क्रियानाश्रयत्वं विभागाश्रयत्वं च संगच्छत इत्यवधे-
यम् । [ख] स्वनिष्ठभेदप्रतियोगितावच्छेद की भूतक्रियाजन्यविभागाश्रयत्वम्
 
को