This page has not been fully proofread.

१०३२
 
न्यायकोशः ।
 
पुण्यं शतकोटिप्रबिस्तरम् ॥ अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिःसृताः ।
मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः ॥ इत्यादिसृष्टिप्रकारः सविस्तरो
द्रष्टव्यः । इदानीं सृष्टिक्रमः कथ्यते । प्राणिनां भोगभूतये परमेश्वरस्य
सिसृक्षा जायते । सर्गादौ भगवानीश्वरः प्रयोज्यप्रयोजकवृद्धशरीरद्वयं
परिगृह्य तथा व्यवहरति । ततस्तद्व्यवहाराद्वाल: पूर्ववत्संकेतं गृह्णाति
( न्या० म० ४ पृ० ५ ) । ततो लब्धवृत्तिकादृष्टविशिष्टात्मसंयोगात्
दोघूयमानेषु पवनपरमाणुषु प्रथमतः कर्मोत्पत्तिः । ततो द्वयोः पवन-
परमाण्वोः संयोगः । ततो झणुकोत्पत्तिः । ततस्त्रिषु णुकेषु कर्मो-
त्पत्तिः । ततस्तेषां संयोगः । ततख्यणुकोत्पत्तिः । एवं चतुरणुकाद्युत्पत्ति-
क्रमेण महाषायुरुत्पद्य विहायसि दोघूयमानस्तिष्ठति । ततस्तस्मिन्यायौ
जलपरमाणुम्यो घणुकादिक्रमेण महाजलराशिरुत्पन्नः पोप्लूयमानः
तिष्ठति । ततस्तस्मिन्महोदधौ पृथिवीपरमाणुतो द्यणुकादिक्रमेण महा-
पृथिव्युत्पद्य संहतावतिष्ठते । ततः तस्मिन्नेव जले तैजसेभ्य उत्पन्नो
महातेजोरा शिर्देदीप्यमानस्तिष्ठति इति । तत्र तेजः परमाणुसहितपृथिवी-
परमाणुभिरीश्वराभिध्यानादण्डमुत्पद्यते तस्मिन्ब्रह्मोत्पद्यते ( त० व०
१२५ - १२७ ) ( सि० च० ) इति । अथ प्रकारान्तरेण सृष्टि-
विधिरुच्यते । खण्डप्रलयानन्तरम् प्राणिनां भोगभूतये परमेश्वरस्य
सिसृक्षानन्तरं सर्वात्मगतवृत्ति लब्धादृष्टापेक्षेभ्यस्तस्संयोगेभ्यः पवनपर-
माणुषु कर्मोस्पत्तौ तेषां परस्पर संयोगेभ्यो द्व्यणुकादिक्रमेण महावायुः
समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेत्र वायावा-
व्येभ्यः परमाणुभ्यस्तेनैष क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्ठ्य-
मानस्तिष्ठति । तदनन्तरं तस्मिन्नेव सलिलनिधो पार्थिवेभ्यः परमाणुभ्यो
द्यणुकादिक्रमेण समुत्पन्ना महापृथिवी संहता घनीभूतावतिष्ठते ।
तदनन्तरं तस्मिन्नेव महोदधौ तैजसेम्यः परमाणुम्यो द्यणुकादिक्रमेण
समुत्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति । एवं समुत्पन्भेषु चतुर्भु
महाभूतेषु परमेश्वरस्याभिध्यानमात्रात् ( इच्छामात्रात् न तु व्यापारा-
न्तरात्) तैजसेभ्योणुभ्यः पार्थिवादिपरमाणुसहितेभ्यो महदण्डमारम्यते ।
तस्मिंश्चतुर्वदनं सकललोकपितामहं ब्रह्माणं सकळमुवनसहितमुत्पाय