This page has not been fully proofread.

न्यायकोशः ।
 
कास्तु सूत्रलक्षणमाहुः संज्ञा च परिभाषा च विधिर्नियम एव च ।
अतिदेशोधिकारथ षड़िधं सूत्रलक्षणम् ॥ इति । पाणिन्यादिप्रणीतानि
ब्याकरणसूत्राणि तु वेदाङ्गान्येव । न तु शास्त्रीयसूत्रषट्रान्तर्भूतानि ।
एवम् आश्वलायनापस्तम्बादिमहर्षिप्रणीतानि धर्मगृह्य श्रौतसूत्राणि बहूनि
सन्ति । २ नाटकज्ञास्तु नाटकोपकरणं प्रस्तावः । यथा सूत्रधारः
इत्यादौ सूत्रशब्दस्यार्थं इत्याहुः । ३ तन्तुः इति काव्यज्ञा आहुः ।
खनृतव्रतम् - प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते ( सर्व० सं० १०
६५ आई० ) ।
 
सृङ्का – शब्दवती रत्नमाला (कठोपनिषत् रङ्गरामानुज पृ० ३७१० १७) ।
सृष्टि: - १ उत्पत्त्यनुकूलव्यापारविशेषः । यथा ससर्ज भगवानादौ त्रीन्
गुणान् प्रकृतेः परः । महत्तत्त्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् ॥
महत्तत्त्वादहंकारं ससर्ज शिवविग्रहम् । दैवान् देहान् मनः खानि खं
च स त्रिविधाचतः ॥ आकाशादसृजद्वायुं बायोस्तेजो व्यजीजनत् ।
तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥ ततः कूटस्थमसुजद्विधिं
ब्रह्माण्डविग्रहम् । तस्मिंस्तु भगवान् भूयो भुवनानि चतुर्दश ॥ ( मणि-
मञ्जरी स० १ लो० २-५) इत्यादौ सृज्धास्वर्थः सृष्टि: । स च
व्यापारो जगदुत्पत्तावीश्वरेच्छारूपः । घटाद्युत्पत्तौ तु कुलालादीन ।
कर्मादिः । अत्र तदैक्षत बहु स्यां प्रजायेय ( छान्दो० उ० ६।२।३ )
तत्सृष्ट्वा तदेवानुप्राविशत् ( तैत्ति ० उ० २२६/१ ) इत्यादिश्रुतयोनु-
संधेयाः । मनुराह ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि
वृतौजाः प्रादुरासीत्तमोनुदः ॥ सोभिध्याय शरीरात्वात्सिसुक्षुर्विविधाः
प्रजाः । अप एव ससर्जादौ तासु बीजमवासृजत् ॥ ( मनु० अ० १
को० ६-८) इत्यादि । पौराणिका नवविधं सर्गे जगुः सर्गो नव-
विधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ॥
( भाग० स्क० ३ अ० १० ) इत्यादि । मत्स्यपुराणे च मत्स्य उवाच
तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्ग-
पदक्रमाः ॥ पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यं शब्दमयं