This page has not been fully proofread.

न्यायकोशः ।
 
-
 
मुक्तबाकः - इदं द्यावापृथिवी भद्रमभूत् इत्यादिको मनः । यथा सूक्त-
बाकेन प्रस्तरं प्रहरति इति । प्रस्तरो दर्ममुष्टिः (जै० न्या० अ० ३
पा० २ अधि० ५ ) ।
 
सूक्ष्मम् – १ अत्यल्पः पदार्थः । यथा अणुपरिमाणयुतः परमाण्वादिः ।
यथा वा अध्यात्मपदार्थः सूक्ष्मशरीरम् । यथा वा केषांचिद्वेदान्तिनां
मते अपञ्चीकृतानि पृथिष्यादीनि पञ्च महाभूतानि सूक्ष्माणि तनिर्मितं
शरीरं सूक्ष्मशरीरम् । तदुक्तम् पञ्चप्राणमनोबुद्धिदशेन्द्रिय समन्वितम् ।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ इति । इदं च लोकान्तर-
गामि भोगोपभोगसमर्थ लिङ्गशरीरम् इत्युच्यते । सांख्यास्तु महद-
इंकारैकादशेन्द्रियपञ्चतन्मात्राणां समुदायः सूक्ष्यशरीरम् । शान्तघोर-
मूढैरिन्द्रियैरन्वितत्वात् विशेषः इति प्रतिपेदिरे (सांख्य • कौ० कारि०
४० ) । अत्रोक्तम् सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते (सांख्य
का० लो० ३९ ) इति । सूक्ष्मा: सूक्ष्मदेहाः । ते च अनुमिताः ।
परलोके कर्मफलभोगः सूक्ष्मदेहं विना अनुपपन्नो भोगत्वात् स्थूल-
देहारब्धकृष्यादिजनितस्य सस्यस्य स्वदेहेनैव भोगवद् इति । स्वदेहा-
रब्धकर्मादिफलं यत् तत् स्वदेहेनैव भोग्यम् नेतरेण । अन्यथा
कृतहानाकृताभ्यागम प्रसङ्गः इत्यादिस्तर्कस्तत्रानुसंधेयः । २ अर्या-
लंकारविशेषः । तदुक्तम् संलक्षितस्तु सूक्ष्मोर्थ आकारेणेङ्गितेन वा ।
कयापि सूच्यते भझ्या पत्र सूक्ष्मं तदुच्यते ॥ ( साहि० परि० १०
को० ९१) । ३ कतकवृक्षः इति भिषज आहुः । ४ कैतवम् इति
काव्यज्ञा आहुः । ५ सूक्ष्मं संपूर्णबहुणं वासुदेवाख्यं परं ब्रह्म
( सर्ब० पृ० ११६ रामा० ) ।
 
सूत्रम् - १ शाखीयबद्दर्थप्रतिपादकसंक्षिप्तवाक्यविशेषः । शास्त्रीयसूत्राणि
षड़िधानि ब्रझमीमांसासूत्रम् धर्ममीमांसासूत्रम् न्यायसूत्रम् वैशेषिक-
सूत्रम् सांख्यसूत्रम् योगसूत्रं चेति । अत्र वेदान्तिनः सूत्रलक्षणमादुः ।
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोममनन्धं च सूत्रं
सूत्रविदो विदुः ॥ ( मध्यमा० ११११ प्रस्ताव० १० ३) इति । शाब्दि-