2023-02-20 00:57:40 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०२९
देशेन मनसः संयोग उत्पद्यते । सैव सुषुप्ति: ( दि० १।३ पृ० ११५)
इति । अत्रेदं बोध्यम् । सुषुप्तौ न किंचिदपि ज्ञानमुत्पद्यते । सुषुप्तिकाले
पुरीतति त्वगिन्द्रियाभावेन तत्र स्थितमनसस्त्वक्संयोगासंभवात् । पुरीत-
द्भिनदेशावच्छिन्नमनः संयोगस्य ( त्वष्णनः संयोगस्य ) ज्ञानसामान्यं प्रति
कारणत्वात् ( राम० १ पृ० ११ -११५ ) इति । पुरीतत् अन्न
इत्याख्यो नाडीविशेषः इति ज्ञेयम् ( अमरः २।६।६६ ) । अत्र श्रुतिः ।
अथ यदा सुप्तो भवति तदा न कस्यचन ( न कंचन ) वेद । हिता
नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः
प्रत्यवसृप्य पुरीतति शेते (शतपथब्रा० १४ बृह० २११/१९)।
यत्रैतत्पुरुषः सुप्तः स्वप्नं ( स्वमसृष्टं फलम् ) न कंचन पश्यति
( कौषीत ० उप० ३।३ ) । तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न
विजानाति ( छान्दो० उ० ८।६।३) इत्यादिः । मायावादिवेदान्तिनस्तु
[घ ] ज्ञानशून्यो जीवस्यावस्थाविशेष इत्याहुः । अत्र श्रुतिः यत्र सुप्तो न
कंचन कामं कामयते न कंचन स्वमं पश्यति तत् सुप्तमिति ( बृद्द० उ०
४ । ३ । १९ ) इति । अत्रेदं विज्ञेयम् । सांख्य मते सुषुभ्यवस्था च द्विविधा ।
अर्धव्यसमप्रलयभेदात् । तत्रार्धलये विषयाकारा वृत्तिर्न भवति । किंतु
स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति । समग्रलये तु बुद्धेर्वृत्ति-
सामान्याभावो मरणादाविव भवति ( सांख्य ० भा० अ० १ सू०
१४८ ) । किं च मायावादिमते समग्रलये जीवः परमात्मनैक्यमाप्नोति
( शारी० मा० १।१।९ ) । तत्र श्रुतिः यत्रैतत्पुरुषः स्वपिति नाम सता
सौम्य तदा संपन्नो भवति । स्वमपीतो भवति । तस्मादेन ५ स्वपितीत्या-
चक्षते (छान्दो० ६।८।१ ) इति । मध्वमते तु तद्यथा प्रियया स्त्रिया
संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् एवमेवायं पुरुषः प्राज्ञेनात्मना
संपरिष्वक्तो न बाह्य किंचन वेद नान्तरम् (बृह० उप० ६।३।२१ )
इति श्रुत्या जीव: सुषुयवस्थायां परमात्मन आलिङ्गनमात्रं प्राप्नोति इति
प्रतिपाद्यते इत्यलं विस्तरेण । [ ] प्रबोधसहकार्यभावेन क्लेशस्यामभि-
व्यक्तिः इति योगिन आहुः ( सर्व० पृ० ३५९ पातजल० ) ।
[ च ] निद्रा इति काव्यज्ञा आहुः ( अमरः १/७/३६) ।