This page has not been fully proofread.

१०२८
 
न्यायकोशः ।
 
स्वभाबमधुरो ध्वनिश्च मधुरो यथा ॥ भूसंसर्गबशाच्चास्य रूपं नैव प्रतीयते ।
स्फटिकस्य जपायोगाद्यथा रूपं न भासते ॥ ( न्या० ली० तेजोनि०
पृ० ९ ) इति । अथ सुवर्णस्य तैजसत्वे प्रकारान्तरेणानुमानमुष्यते ।
सुवर्ण तैजसम् असति प्रतिबन्धकेत्यन्तानलसंयोगेपि अनुच्छिद्यमान-
द्रषत्वात् यन्नैवं तन्नैवं यथा पृथिवी (मु० तेजोनि० पृ० ८१ ) इति ।
नौ सुवर्णमक्षीणम् ( याज्ञ० २११७८) इति स्मृतेरग्निसंयोगेपि तस्य
नोच्छेदः । अत्रेदं विज्ञेयम् । अत्यन्तानलसंयोगे सति पार्थिवे घृतादौ
द्रषत्वनाशदर्शनेन जलमध्यस्थवृतादौ द्रवत्वनाशादर्शनेन असति प्रति-
बन्धके पार्थिषद्रवत्वनाशात्यन्ताग्निसंयोगयोः कार्यकारणभावावधारणात्
 
सुवर्णस्यात्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिव
त्वानुपपत्तिः । तस्मात् पीतद्रव्यद्रवत्व नाशप्रतिबन्धकतया द्रवद्रव्याम्तर-
सिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जळत्वानुपपत्तेः रूपवत्तया वाय्वा-
दिष्वनन्तर्भावात् तैजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोरुपष्टम्मक-
पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्ण तैजसम्
इति सिद्धम् ( त० दी० १ पृ० ८-९) । आगमोपि अग्रपत्यं प्रथमं
हिरण्यम् ( दि० ११० ८१ ) इति । ब्राह्मण स्वामिकसुवर्णचौर्ये महा-
पातकम् । तत्संग्रहस्तु पातकशब्दव्याख्याने ( पृ० ४९८ ) दृश्यः ।
एवम् हिरण्य रौप्य इत्यादयः शब्दा व्याख्येयाः । २ कर्षपरिमाणम् ।
यथा प्रायश्चिचप्रत्याम्नायादौ सुवर्णशब्दार्थः कर्षपरिमाणम् । ३ धनम् ।
४ धत्तूरम् इत्यादि ।
 

 
सुषुप्तिः -[क] प्रदेश विशेषाव स्थितमनः संयोगः ( नील० गु० पृ०
३८ ) । स च प्रदेश पुरीतदात्मकः । [ख] निद्रानाड्यवच्छिन्ना-
रममनोयोगः (कृष्णं० ) । [ग ] पुरीतता मनसः संयोगः । यथा
पुरुषः सुप्तः स्वप्नया चरति । तो इ सुप्तं पुरुषमाजग्मतुः ( कौषीत ●
४।१५ - १९) इत्यादौ स्वपूधात्वर्थः स्वापः । स एव सुषुप्तिः । सुषुप्ते-
रुत्पत्तिमाहुर्नव्याः । प्रथमम् सुषुप्त्यनुकूलमनः क्रियया पुरीतद्व्यतिरिक्तात्म-
प्रदेशान्मनसो विभागः । ततस्तत्संयोगनाशः । ततः पुरीतदात्मकोत्तर-