This page has not been fully proofread.

न्यायकोशः ।
 
१०२७
 
पैष्टी मुख्योक्ता न तस्यास्त्वितरे समे ( मनु० टी० कुल्लू० अ० ११
लो० ९० ) इति । पैष्टी तण्डुल पिष्टसाध्या अन्नविकार: ( मिता० ) ।
तदन्यन्मद्यम् । अत्र त्रैवर्णिकानामुत्पत्तिप्रभृति पैष्टीप्रतिषेधः । ब्राह्मणस्य
तु मधमात्रनिषेधोप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि
गौड्यादिमद्य प्रतिषेधः । शूद्रस्य तु न सुराप्रतिषेधः । नापि मद्यमात्र-
प्रतिषेधः ( मिताक्ष अ० ३ श्लो० २५३ पृ० ८१ ) ( मनु०
अ० ११ लो० ९३ कुल्लूक० ) । कामतः सकृत्सुरापानेपि प्रायश्चित्तं
तु सुरां पीत्वा द्विजो मोहात् (रागमूढतया) अग्निवर्णी सुरां पिबेत् ।
तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ ( मनु० अ० ११
लो० ९० ) इति । अकामतः जलादिबुद्ध्या सुरापाने तु द्वादश-
वार्षिकं ब्रह्महत्याव्रताचरणम् । छर्दनानन्तरं तु त्रैवर्षिकं पिण्याकादि-
भक्षणं प्रायश्चित्तम् । केवलतालु मात्रसुरासंयोगे तु वर्षपर्यन्तं सकृत्पिण्या-
कादिमक्षणं प्रायश्चित्तं बोध्यम् इति । भत्या मद्यपाने गौडीमाध्य्योर-
ज्ञानतः पाने च कृच्छ्रातिकृच्छ्रसहितः पुनः संस्कारः । अकामतोमुख्य-
सुरापाने तु वर्षपर्यन्तं प्रतिरात्रं सकृत् पिण्याकादिभक्षणम् तप्तकृच्छ्र-
पूर्वकं पुनरुपनयनादि च ज्ञेयम् ( याज्ञ० अ० ३लो० २५३-२५५)
( मनु० अ० ११ को० ९२ ) ।
 
सुवर्णम्- -१ ( आकरजं तेजः ) पार्थिवभागसंयुक्तो द्रवद्रव्यविशेषः । यथा
सुवर्णाङ्गुलीयकम् इत्यादौ सुवर्णशब्दार्थः । सुवर्णस्य तैजसत्वं यथा
पीतिमगुरुत्वाश्रयस्यात्यन्ताग्निसंयोगेपि पूर्वरूपापरावृत्तिदर्शनात् पूर्वरूप-
पराष्वृत्तिप्रतिबन्धकं विजातीयं द्रवद्रव्यं कल्प्यते । तथा अनुमानम् अग्नि-
संयोगिधीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रष्यसंयुक्तः अत्य-
तामिसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वात् जलम-
ध्यस्थपीतपटवत् (मु० १ तेजो० पृ० ८१ ) इति । अत्रोक्तम् पीतिमा
व गुरुत्वं च दाहे यस्य च रक्तता । तस्य लोकप्रसिद्धस्य स्वर्णत्वं केन
बार्यते ॥ अनुच्छिन्नद्रवत्वं तु वस्तु यत्त्विह भासते । सुबर्णव्यवहारोंयं
तत्रशास्त्रे प्रवर्तते ॥ वस्तुभेदे प्रसिद्धेपि शब्दसाम्यं प्रवर्तते । रसः