This page has not been fully proofread.

१०२६
 
न्यायकोशः ।
 
सु अतिशयेथें द्विवचनविभज्योपपदे तरबीयसुनौ (पाणि० ५ । १३ । ५७)
इत्यादिना तरपू आम् इति ।
 
सुप्-(विभक्तिः ) [क] प्रकृत्यर्थधर्मिक स्वार्थसंख्यान्वयबोधिका विभक्तयः
सुप उच्यन्ते । यथा घटोस्ति इत्यादौ घटपदोत्तरं सुविभक्तिः । तिङस्तु
स्वार्थभावनाद्यन्वयिन्येष स्वार्थसंख्यामवबोधयन्ति न तु स्वप्रकृत्यर्थे
इति तासां व्युदासः ( श० प्र० श्लो० ६३ टी० पू० ७३) । ताः
सुपः प्रथमाद्वितीयादिभेदेन सप्तविधाः । सुप् प्रकारान्तरेण द्विधा
कारकार्था कारकार्थान्या चेति । कारकार्था कारक विभक्तिः । तत्र दृश्या
कारकस्य बोधिका कारकार्था । तदन्यस्य बोधिका कारकार्थान्या (श०
प्र० श्लो० ६७ टी० पृ० ७७ ) । [ ख ] वैयाकरणास्तु व्याकरण-
परिभाषिताः सुप्रभृतिसुपपर्यन्ताः सुप्प्रत्याहारान्तर्गताः एकविंशति-
संख्याकाः प्रत्ययविशेषाः । यथा रामः इत्यादौ रामपदोत्तरं सुविभक्तिः
इत्यादुः । ते च प्रत्ययाः सु औ जस् अम् औटू शस् टा म्यां भिस् डे
भ्याम् भ्यस् ङसि भ्याम् भ्यस् ङस् ओस् आम्ङि ओस् सुप्
(०४।१।२) इति । शिष्टं तु विभक्तिशब्दव्याख्याने दृश्यम् ।
सुतः - निद्रितः । यथा निर्विकासले सुप्तोत्थितस्य अयं घटः इति
विशिष्टज्ञानं न स्यात् ( त० कौ० १ पृ० ८ ) इत्यादौ ग्रन्थे सुप्त-
शब्दार्थः । अत्रोच्यते प्रसङ्गतो व्यवहारोपयोगि । क्षुधितस्तृषितः कामी
विद्यार्थी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान् प्रदोष-
येत् ॥ इति । अन्यच्च मक्षिका भ्रमरः सर्पो राजा बै बालकस्तथा ॥
परश्चापि च मूर्खश्च सप्त सुप्तान्न बोधयेत् ॥ ( नीतिसारे ) इति ।
 
---
 
सुभद्रा – ( कल्याणीशब्दे दृश्यम् ) ।
 
सुरा-पैठ्याख्यो मद्यविशेषः । यथा न सुरां पिबेत् ( मनु० अ० ११
को० ९३ ) इत्यादौ सुराशब्दस्मार्थः । अत्रेदं बोध्यम् । यद्यपि सुरा
शब्दवाच्या: गौडी माध्वी पैष्टी इति तिस्रः तथापि सुराशब्दो पैष्टी-
मात्रे मुख्यः । गौडी माध्थ्योगणः । तथोक्तं भविष्यपुराणे सुरा च