2023-02-20 00:54:13 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
अपशब्दः - शक्तिवैकल्यप्रमादादिना साधुशब्दस्याम्यथोचारणसाध्योपभ्रं-
शशब्दः । यथा म्लेच्छो ह वा नाम यदपशब्दः ( पा० म० भा० १।
१।१ ) । हरिणाप्युक्तम्-त एव शक्तिवैकल्य प्रमादालसतादिमिः । अन्यथो-
चारिताः शब्दा अपशब्दा इतीरिताः ॥ इति ।
-
अपसिद्धान्तः – ( निग्रहस्थानम् ) [ क ] सिद्धान्तमभ्युपेत्यानियमात्क-
थाप्रसङ्गः ( गौ० ५।२।२४ ) । कस्यचिदर्थस्य तथाभावं प्रतिज्ञाय
प्रतिज्ञातार्थंविपर्ययादनियमात्कथ प्रसञ्जयतोपसिद्धान्तो वेदितव्यः ।
यथा न सदात्मानं जहाति न सतो विनाशो नासदात्मानं लभते नास-
दुत्पद्यत इति सिद्धान्तमभ्युपेत्य स्वपक्षं व्यवस्थापयति एकप्रकृतीदं
व्यक्तम् । विकाराणामन्वयदर्शनात् । मृदन्वितानां शरावादीनां दृष्टमेकप्रक-
तित्वम् । तथा चायं व्यक्तभेदः सुखदुःखमोहान्वितो दृश्यते । तस्मात्स-
मन्वयदर्शनात्सुखादिभिरेकप्रकृतीदं शरीरमिति । एवमुक्तवाननुयुज्यते ।
अथ प्रकृतिर्विकार इति कथं लक्षितव्यमिति । यस्यावस्थितस्य धर्मान्तर
निवृत्तौ धर्मान्तरं प्रवर्तते सा प्रकृतिः । यच्च धर्मान्तरं प्रवर्तते स विकार
इति । सोयं प्रतिज्ञातार्थविपर्यासादनियमात्कथां प्रसञ्जयति । प्रतिज्ञातं
खल्वनेन नासदाविर्भवति न सत्तिरो भवतीति । सदसतोश्च तिरोभावा-
विर्भावमन्तरेण न कस्यचित्प्रवृत्तिः प्रवृत्त्युपरमश्च भवति । मृदि खल्य-
वस्थितायां भविष्यति शरावादिलक्षणं धर्मान्तर मिति प्रवृत्तिर्भवति ।
अभूदिति च प्रवृत्त्युपरमः । तदेतन्मृद्धर्माणामपि न स्यात् । एवं
प्रत्यवस्थितो यदि सतश्चात्महानम् असतश्चात्मलाभमभ्युपैति तदस्याप-
सिद्धान्तो निग्रहस्थानं भवति । अय नाभ्युपैति पक्षोस्य न सिष्यति ।
( वात्स्या० ५/२/२४ ) । [ ख ] कथायां स्वीकृतसिद्धान्तप्रव्यषः ।
तथा च सांख्यमतेन अहं वदिष्यामीत्यम्युपेत्यारब्धायां कथायामावि-
र्भावस्याविर्भावाभ्युपगमेनबस्थेति दूषणोद्धारायाविर्भावस्यासत उत्पत्ति
यद्यभ्युपैति तदापसिद्धान्तः ( गौ० दृ० ५।२।२४ ) ( दि० १ ) ।
[ग] एकसिद्धान्त मतमाश्रित्य कथाप्रवृत्तौ तद्विरुद्धसिद्धान्तमतमाख-
म्ब्योत्तरदानम् ( नील० ४६ ) । सिद्धान्तादपध्वंसोपसिद्धान्त इत्यर्थः