This page has not been fully proofread.

१०२२
 
न्यायकोशः ।
 
मित्रादीनां सिद्धिः । संकल्पसिद्धिः कामरूपी यत्र तत्र कामगः इत्येव
मादिः । समाधिजाः सिद्धयस्तु परमाण्वादिमूलप्रकृत्यन्तवस्तूनां साक्षा-
त्कारः ऋतंभराख्याध्यात्मप्रसादच इत्यादयः ( पात० ११४७-४८)।
अष्टौ सिद्धयस्तु अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यम्
वशित्वम् ईशित्वं चेति । तत्र भूतजयेनाणिमाद्यष्टसिद्धयः प्राप्नुवन्ति । तत्र
अणिमा परमाणुष सूक्ष्मस्वरूपेणाबस्थानम् । महिमा विभुत्वप्राप्तिः ।
लघिमा कार्पासवलधुत्वभवनम् । गरिमा मेरुपर्वतबद्गुरुत्वभवनम् ।
प्राप्तिः अङ्गुल्या चन्द्रमण्डलस्पर्शनम् । प्राकाम्यं सत्यसंकल्पत्वम् ।
वशित्वं सर्वप्राणिनियन्तृत्वम् । ईशित्वं च सर्वभूतोत्पादनशक्तिमत्वम्
(पात ० ३।४५ ) इति । ५ तान्त्रिकास्तु मन्त्रसिद्धिरित्याहुः । इयं
सिद्धिरुत्तममध्यमाधममेदेन त्रिविधा । तत्रोत्तमा मनोरथानामवेशपरकाय-
प्रवेशादिः । मध्यमा ख्यातिवाहनभूषादिलामः । अधमा तु घनित्व-
पुत्रदारादिलाभ: ( तत्र सा० ) इति ।
 
सिनीवाली - दृष्टचन्द्राममावास्यां सिनीवाली प्रचक्षते ( पु० चि०
पृ० ३१८ ) ।
 
-
 
सिषाधयिषा – [ क ] तत्साध्य विशिष्टतःपक्षविषय करव प्रकारिकानुमिति वि-
षयिणीच्छा ( दीघि ० २ पक्ष० पृ० १२४) । [ख] अनुमितित्व-
प्रकारकेच्छा ( ग० सार्व० पक्ष० ) । यथा पर्वते बड्पनुमितिर्मे जाय-
ताम् इत्याकारिकेच्छा । अत्रेदं चिन्त्यम् । सिद्धौ सत्यामपि सिषाध-
यिषासत्वेनुमितिदर्शनात्सिषाधयिषाया अनुमितादुत्तेजकत्वमुक्तम् । तञ्चो-
तेजकत्वम् तत्साध्यविशिष्टतत्पक्षविषयकत्वानुमितित्व प्रत्यक्षातिरिक्तत्वैत-
त्क्षणानन्तरक्षणानुमितित्वैतन्निष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपकवि-
षयिताकत्वरूपेणानुगतेन बाध्यम् ( ग० पक्ष० ) इति । परे तु पर्वते
बमिनुमिनुयाम् इत्याद्यनुगतेच्छानामनुगतरूपेणैवोत्तेजकत्वम् । प्रत्यक्षा-
तिरिक्तं ज्ञानं जायताम् इत्याद्यननुगतेच्छानां तु तत्तयक्तित्वेनैबोत्तेजकत्वं
बाच्यम् इत्याहुः ( दि० २ पक्षता० १० १४९) ।
 
सीमा -१ मर्यादा (ग० ब्यु० कार० २ ख० २ १० ७५ ) ।