This page has not been fully proofread.

न्यायकोशः ।
 
१०१९
 
-
 
सिद्धसाधनम् – ( दोषः ) १ प्रमाणान्तरेणावगतार्थसाधनम् अनुमानम् ।
यथा पर्वते वह्निनिश्चयानन्तरमपि पुनस्तरसाधनाय विहितं पर्वतो वह्निमान्
घूमात् इत्यनुमानम् । अत्र न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेनु-
मातारः इत्यनुभवो द्रष्टव्यः ( तत्त्वचिन्तामणौ वाचस्पतिमिश्रः ) । अत्र
सिषाधयिषाया असत्रे इति ग्रन्थ आदौ पूरणीयः । सिषाधयिषायाः
सखे तु अनुमितेरुदयेन तदा सिद्धसाधनस्य न दोषत्वम् (पक्षता-
विघटकत्वम् ) इत्यवधेयम् । अत्र प्रत्यक्षकलितमप्यर्थमनुमानेन बुभुत्सन्ते
तर्करसिकाः इत्यनुभवो द्रष्टव्यः (चिन्तामणौ वाचस्पति मिश्रः ) । २ सा-
भ्यपक्षताषच्छेदकयोरैक्ये सिद्धसाधनम् । यथा पर्वतः पर्वतस्त्रवान् घूमात्
इत्यादौ सिद्धसाधनम् । अत्र पूर्व पक्षतावच्छेदकपर्वतत्वविशिष्टपक्षज्ञा-
नेनैव साध्यसि ड्युपपत्तौ पुनस्तत्साधनं सिद्धसाधनम् इति भावः ।
केचित्तु पक्षतावच्छेदकभेदे न सिद्धसाधनं दोषः । यथा नित्ये वानसे
इत्यत्र । यथा वा घटत्वावच्छेदेनेतरभेदस्य सिद्धलेपि द्रव्यस्त्रावच्छेदेने-
तरभेदसाधने न सिद्धसाधनम् इत्याहुः । सिद्धसाधनं च हेत्वाभासो
निग्रहस्थानं वेति मतभेदः । तत्र सिद्धसाधनं पक्षताविघटकत्वेनाश्रया-
सिद्धेन्तर्भवति इति प्राञ्चः जरनैयायिका: आहुः । तन्मते पक्षतायाः
साध्यसंशयरूपतया तद्विघटकत्वं साध्यनिश्चयस्याक्षतम् । तथा च
संदिग्धसाध्यवतः पक्षस्याभावादाश्रयासिद्धिः इति भावः ( नील० २)
( प्र० च० पृ० ३१ ) । नव्यास्तु सिषाधयिषितपक्षविघटनद्वारा सिद्ध-
साधनं दूषणम् न स्वतः । सत्यपि सिद्धसाधने (साध्यनिश्चये) सिषाध-
यिषयानुमित्युदयान्न सिद्धसाधनं हेत्वाभासान्तरम् । किंतु निग्रह स्थाना-
न्तरम् इत्याहु: ( चि० २ ) ( न्या० म० २ पृ० २१ ) ( म० प्र० २
पृ० २८) ( त० दी० २ पृ० २७ ) ( सि० च० ) । नव्यानामय-
माशयः । सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्यैव सिद्धान्तसिद्धपक्षतात्व.
स्वीकारात् सत्यामपि सिद्धौ ( साध्यनिश्चये) सिषाधयिषादशायां चानु-
मित्युदयेन सिद्धेरनुमितिप्रतिबन्धकत्वाभावान्न व्यापकत्वघटित हेत्वाभास-
लक्षणाकान्तत्वं सिद्धिविषयस्य साध्यवत्पक्षस्य इति न सिद्धसाधनस्य
हेत्वाभासत्वं ( दुष्टहेतुत्वम्) संभवति (नील० २ पृ० २७ ) इति ।