2023-02-20 00:57:38 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०१८
साहाय्यम् - सहायता ।
-
साहित्यम् - १ तत्तत्क्रियाकालवृत्तित्वम् सहवर्तमानत्वं वा । यथा एकेनापि
सुपुत्रेण सिंही स्वपिति निर्भयम् । सहेब दशभिः पुत्रैर्भारं वहति गर्दभी ॥
इत्यादौ सहशब्दस्यार्थः । अत्र वर्तमान इत्यभ्याहारात् वर्तमानस्वक्रिया-
मादायैव साहित्यबोधः इति बदन्ति ( ग० ब्यु० का० ३ पृ० ९१ ) ।
अथ वा विद्यमान इत्यध्याहारात् विद्यमानत्वमपि सहशब्दार्थः । अत एव
विद्यमानसहार्थे तृतीयेयम् इति शाब्दिकमतमपि वरीवर्ति । अत्र पुत्रेषु
भारवहनकर्तृत्वाभावेपि सहशब्दप्रयोगादध्याहार आवश्यकः इति ज्ञेयम्
( का० व्या० पृ० ८ ) । २ [क] तुल्यवदेक क्रियान्वयित्वम् (न्या०
म० ४ ) ( दि० ४ ) । तदर्थश्च एककारकान्वयित्वेन तुल्ययोरेक-
जातीयक्रिययोरन्वयित्वम् (समानकालीनत्वम् ) ( श० प्र० लो० ९४ टी०
पृ० ११९ ) इति । [ ख ] अन्ये तु परस्परसापेक्षाणां तुल्यरूपाणा-
मेकक्रियान्वयित्वम् इत्याहु: ( श्राद्ध० ) ( बाच० ) । शान्दिकास्तु
समभिव्याहृतत्वं सहितत्वम् इत्याहुः ( सि० कौ० ) । ३ बुद्धिविशेष-
विषयत्वम् । ५ काव्यज्ञास्तु पद्यात्मकं काव्यं साहित्यम् इत्याहुः । शिष्टं
तु सहशब्दव्याख्याने दृश्यम् ।
सिंहासनम् - विजयो जयदो नाम रिपुप्नोतिप्रियंकरः । दुःसहो धर्मदः
शान्तः सर्वारिष्टविनाशनः ॥ एतेष्टौ संनिधौ प्रोक्तास्तव सिंहा महाबलाः ।
तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे ॥ ( पु० चि० पृ० ७२ ) ।
सिद्धम् – १ इदमित्थंभूतं च इत्यम्यनुज्ञायमानमर्थजातम् । यथा सिद्धान्त
इत्यादौ सिद्धशब्दस्यार्थ: ( वात्स्या० ११ १/२६ ) । २ सिद्धिविषयः ।
३ निश्चितम् । ४ परिनिष्ठितम् । यथा परब्रह्म सिद्धम् इत्यादौ सिद्ध-
शब्दार्थ इति मायावादिवेदान्तिनो वदन्ति । ५ देवयोनिविशेषः इति
पौराणिका आहुः । ६ मौहूर्तिकास्तु विष्कम्भादिषु मध्ये (२१) एक-
विंशो योगः इत्याहुः । ७ कृष्णधत्तूरम् इति भिषज आहुः । ८ मश-
विशेषः सिद्धियुक्तमन्नध इति मात्रिका आहुः । ९ शाब्दिकास्तु क्रिया-
विशेष: इत्याइः । १० निष्पन्नम् इति काव्यहा आइः ।