2023-02-20 00:57:37 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१०१७
सं० ३१५/७ ) इत्यादौ पर्णताया अनारम्याधीताया दर्शपूर्णमासरूप-
प्रकृतियागेन्वय इत्याहुः । तथा हि सामान्य विधेरस्पष्टत्वात्तस्य विशेष-
णोपसंहारो भवति । तथा चोक्तम् सामान्यविधिरस्पष्टः संहियेत विशेषतः
( लौ०
० मा० टी० पृ० २३ ) इति ।
सामासिकम् – ( योगरूढं नाम ) समासात्मकं नाम । यथा कृष्णसर्पादि ।
कृदन्तस्य पङ्कज इत्यादियोगरूढस्य सामासिक एवान्तर्भावः ( श० प्र०
लो०
१० २९ पृ० ३७ )।
सायम्
संध्याशब्दे दृश्यम् ।
—
सार्थकः – १ ( शब्दः ) यादृशः शब्दः शब्दान्तरं सहकृत्यैव स्वस्य स्व-
घटकस्य वा वृत्युपस्थाप्ययादृशार्थावगाहिबोधं प्रत्यनुकूलः स तथाविधेर्ये
सार्थकः । यथा पटपाचकाद्याः प्रकृतयः सुप्तिङाद्याः प्रत्ययाः चादयो
निपाताश्च स्वोपस्थाप्यार्थस्य बोधं नियमतः शब्दान्तरं सहकृत्य जनयन्ति ।
सार्थकः शब्दस्त्रिविधः प्रकृतिः प्रत्ययः निपातश्चेति । शश विषाणादिकः
शब्दोपि शशीयत्वादिना विषाणादेरन्वयबोधमादधानस्तादृशविषयताक.
बोधने सार्थक एव । परं त्वयोग्यः । वाक्यानि पुनः शब्दान्तरमसह-
कृत्यापि स्वोपस्थाप्यार्थस्य बोधं जनयन्ति इति न तत्रातिव्याप्तिः ( श०
प्र० श्लो० ६ पृ० ७ ) । २ समूहः सार्थः इति काव्यज्ञा आदुः ।
सास्मितः - (समाधिः ) यदा रजस्तमोलेशानभिभूतं शुद्धं सस्वमालम्बनीकृत्य
या प्रवर्तते भावना तदा तस्यां सत्वस्य न्यग्भावाञ्चितिशक्तेरुद्रेकाच
सत्त्व मात्रावशेषत्वेन सास्मितः समाधिः ( सर्व० सं० पृ० ३५७ पात ० ) ।
साहचर्यम् – १ साहित्यम् । २ सामानाधिकरण्यम् ( त० दी० ) ( न्या०
बो० ) । ३ समभिव्याहारः ।
-
1
साहसम् – सहसा क्रियते कर्म यत्किंचिद्वलदर्पितैः । तत्साहसमिति प्रोक्तं
सहो बलमिहोच्यते ॥ ( मिताक्षरा अ० २ श्लो० २३० ) । यथा विष-
शस्त्रादिनिमित्तं प्राणव्यापादनादि ( मिताक्षरा अ० २ लो० १२ ) ।
तदुक्तम् मनुष्यमारणं चौर्य परदाराभिमर्शनम् । पारुष्यमुभयं चेति
साहसं स्याच्चतुर्विधम् ॥ ( मिताक्षरा अ० २ श्लो० ७२ ) ।
१२८ न्या० को
●