2023-02-20 00:57:37 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
ज्ञानमित्यस्यार्थश्च इन्द्रियसंबद्ध विशेष्यकं सामान्यप्रकारकं ज्ञानम् इति ।
अत्रार्ये व्युत्पत्तिः सामान्य लक्षणं निरूपकं विषयः यस्य तत् (मु०
१ पृ० १३० ) ( दीधि ० २ पृ० ८० ) इति । इदानीं सामान्य-
लक्षणज्ञानलक्षणयोः संनिकर्षयोर्भेद उच्यते । तत्र सामान्य लक्षण-
संनिकर्षः सामान्याश्रयसकलव्यक्तिविषयकं ज्ञानं जनयति । ज्ञानलक्षण-
संनिकर्षस्तु यस्य सामान्यस्य ज्ञानं संनिकर्षः अस्ति तस्यैव ज्ञानं जनयति
( भा०प० ) (मु० ) इति । अथ कारणतावच्छेदकभेदेन कार्य-
तावच्छेदकभेदेन च तयोर्भेद उच्यते । तत्र सामान्यलक्षणायाः कार्य-
कारणभावश्च तत्तत्संबन्धावच्छि नघटत्यादिप्रकारिताशालिज्ञानत्वेन स्वरू-
१०१६
पतस्तत्संबन्धावच्छिन्नघटत्वादिप्रकारिताकतत्तत्संबन्धावच्छिन्नघटत्वाद्या-
श्रयताशालिमुरूपविशेष्यकप्रत्यक्षत्वेन इति । ज्ञानलक्षणायाः कारण-
ताबच्छेदकं तु सामान्यतः संसर्गावच्छिन्नघटत्वादिविषयताशालिज्ञानत्वम् ।
घटत्वादिप्रकारकज्ञानादिव घटलादिविषयक ( घटत्वादिविशेष्यक) ज्ञानादपि
घटत्वादिप्रकारकोपनीतभानोदयात् । केचित्तु ज्ञानलक्षणायाः सप्रकारक-
·घटत्वादिज्ञानत्वं कारणतावच्छेदकम् इत्याहुः । भाषापरिच्छेदकारादयस्तु
संसर्गावच्छिन्नतद्विषयताशालिज्ञानत्वेन कारणता योगजधर्माजन्यसामान्य-
लक्षणाप्रत्यासस्यजन्यतद्विषयक प्रत्यक्षत्वेन कार्यता इत्याहुः । अत्र
तद्विषयिता चालौकिकी प्राया । तेन तल्लौकिकप्रत्यक्षे न व्यभिचारः
( म० म० २ पृ० २७१) ।
सामान्यलक्षणा – ( प्रत्यासत्तिः )
-
-
सामान्यलक्षणशब्दवदस्यार्थोनुसंधेयः ।
सामान्यविधिः – (विधि: ) १ विशेषापवाद्यो विधिः । यथा कौण्डि-
न्याय तक्रम् इति विशेषापवाद्यः सर्वेभ्यो दधि दीयताम् इति सामान्य-
विधिः । यथा वा मतविशेषे अग्नीषोमीयं पशुमालभेत इति विशेषाप-
बाघो न हिंस्यात्सर्वा भूतानि इति हिंसासामान्यनिषेधविधिः सामान्य-
विधिः । शिष्टं सामान्यशब्दे दृश्यम् । २ मीमांसकास्तु अनारम्य विधिः ।
यथा सामिषेन्यूचा साप्तदश्यस्यानारम्याधीतत्वेन सामान्यविधिः । यथा
मा यस्य पर्णमयी जुहूर्भवति न स पाप कोकर शृणोति ( तैत्ति ०