This page has not been fully proofread.

५५
 
लापुरापेक्षया भीमानदी स्वसमवायिसंयुक्तसंयोगेनाल्पतरदेशसंयोगवती इति
ज्ञानेन दैशिकमपरत्वमुत्पद्यते। अधिकं तु अन्यत्र ( ३० उ० ७/२/२१ )
द्रष्टव्यम् । फाळकृतस्त्वं च स्वसमवायिसंयुक्तसंयोगसंबन्धेन रवि-
क्रियाप्रकारककालविषयकज्ञानजन्यत्वम् ( वाक्य० ) । अल्पतरदिवाकर-
क्रियाविशिष्टशरीरज्ञानात् अपरस्योत्पत्तिः ( सि० च० १११८ ) ।
दिकृतमपरत्वमिदमस्मात्संनिकृशम् इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) ।
अवलोकनीयात्र दिक्शब्दव्याख्या । कालकृतमपरत्वं तु अयमस्मादल्पतर-
कालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) । अवलोकनीयात्र
काळशब्दव्याख्या । अत्र नव्या आहुः अल्पतरसूर्यपरिस्पन्दान्तरित जन्यत्र-
रूपकनिष्ठत्व-अस्पसंयोगान्तरितत्वरूपसंनिकृष्टत्वाभ्यां कालिकदैशिकाप-
रत्वव्यवहारोपपतेर्नापरत्वस्य गुणान्तरस्वम् इति ( दि० गु० पृ० २०९ ) ।
अपराजिता - मासि भाद्रपदे शुक्का सप्तमी या गणाधिप । अपराजितेति
विख्याता महापातकनाशिनी ॥ ( पु० वि० पृ० १०४) ।
अपराह्न: - पञ्चधा विभक्तेहनि चतुर्थो भागः । २ द्विधा विभक्तेहन्युत्तरो
भागः ( मिताक्षरा अ० २ श्लो० ९७ ) ।
 
अपरिग्रहः- ( व्रतम् ) सर्वभावेषु मूर्छायास्त्र्यागः स्यादपरिग्रह ( सर्व०
सं० १० ६६ आईत० ) ।
 
अपवर्ग:-
१ – १ अस्यार्थो निःश्रेयसषदनुसंधेयः । आत्यन्तिकी दुःखनिवृत्तिर-
पवर्ग: । निवृतेरात्यन्तिकत्वं नाम निवर्त्यसजातीयस्य पुनस्तत्रानुत्पादः
( सर्व० सं० पू० २४६ अक्षपा० ) । २ फलप्राप्तिः । यथा अपवर्गे
तृतीया ( पाणि० सू० २।३।६ ) इत्यादी ।
 
अपवाद: --१ बाधनसाधनं वस्तुमात्रम् । २ विशेषशास्त्रम् । यथा मा हिं
स्यात्सर्वा भूतानीत्युत्सर्गस्य वायव्य श्वेतमालमेत इति शास्त्रमपवादः । ३
मिथ्याभूतपदार्थनिवारणार्थमुपदेशविशेष इति मायाबादिन आहुः ।
४ मिथ्यावाद इति सांख्याः । ५ निन्दा निरासनं वेति काव्यज्ञाः ।
( वाच० ) ।