2023-02-20 00:57:37 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
पृ० ८१ ) इति । अयं संनिकर्षच अतीतानागतानामिन्द्रियासंनिकृष्टानां
सामान्याश्रयाणां सर्वेषां व्यक्तीनामलौकिकं प्रत्यक्षं जनयति इति बोध्यम् ।
सामान्यलक्षणायाः प्रत्यासत्त्याः सामान्य प्रकारकज्ञानजनकत्वनियमात्
( दीषि० २) । मीमांसका मायावादिवेदान्तिनच सामान्यलक्षणं संनि-
कर्ष नाङ्गीचक्रुः ( म० प्र० ४ १० ३९ ) । तन्न सहन्ते नैयायिकाः ।
यदि सामान्यलक्षणा प्रत्यासत्तिर्नास्ति तदा अनुकूलतर्कादिकं विना
घूमादौ व्यभिचारसंशयो न स्यात् । प्रसिद्धधूमे वह्निसंबन्धावगमात्
कालान्तरीय देशान्तरीयधूमस्य मानाभावेनाज्ञानात् । सामान्येन तु सकल-
घूमोपस्थितौ घूमान्तरे विशेषादर्शनेन संशयो युज्यते (चि० २
पृ० १८-१९ ) । अतः सामान्यलक्षणावश्यकी इति । अत्र सामान्यं
च सखण्डाखण्डभेदेन द्वेधा सखण्डे चाखण्डमेव परंपरया
संबद्धं प्रत्यासत्तिः । येन संबन्धेन चेन्द्रियसंबद्धे सामान्यं ज्ञायते
तेन संबन्धेनाधिकरणानां प्रत्यासत्तिः ( दीधि ० २ पृ० ८१ ) । अत्र
इन्द्रियसंबद्ध इत्युक्त्या इन्द्रियसंबन्धस्य संयोगादेरिन्द्रिय प्रतियोगिकत्वात्
तद्घटितस्येन्द्रियसंयुक्त विशेष्यकज्ञानप्रकारी भूतधूमत्वादेः प्रत्यासत्तित्वं ज
न्यत्वघटितव्यापारत्वं च निर्वहति इति विज्ञेयम् ( दि० १ पृ० १२७) ।
अत्र बहिरिन्द्रियस्य संबन्धश्च लौकिको प्रायः । तेन एतादृशसंबन्ध-
घटितं सामान्यं बहिरिन्द्रिय प्रत्यक्षस्थले ह्युपयुज्यते (मु० १ पृ० १२९)
( सि० च० ) । ज्ञानस्य तदिन्द्रियजन्यत्वं च नियामकम् । एवं च
अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणुगोचरो मानसो बोधः इति
बदन्ति । दीधितिकृता तु स्वमते सामान्यलक्षणायाः प्रत्यासत्तित्वं
निराकृतम् इति विज्ञेयम् । [ ख ] ज्ञानप्रकारीभूतं सामान्यम् । यथा
घटत्वपरमाणुस्वादि । अत्र अणुत्वेन यत्किंचिदणूपस्थितावपि सकलाणु-
गोचरो मानसो बोधो भवति इति भावः । इदं मानसप्रत्यक्षस्थले
छुपयुज्यते ( मु० ) ( सि० च० ) । २ सामान्यविषयकं ज्ञानम् ।
यथा घटत्वज्ञानम् ( मु० १ पृ० १३० ) ( सि० च० ) । तथा हि
अयं घटः इति घटत्वविषयकलौकिकप्रत्यक्षेण सर्वे घटाः इति सकल-
घटविषयकालौकिक प्रत्यक्षं जायते ( सि० च० ) इति । सामान्यविषयकं
१०१५