This page has not been fully proofread.

१०१४
 
न्यायकोशः ।
 
क्तस्यातिसामान्ययोगादसंभबदर्थंकत्वंकल्पनया
 
दूषणाभिधानम् । यथा
 
ब्राह्मणोयं विद्याचरणसंपन्नः इत्युक्ते ब्राह्मणत्वेन विद्याचरणसंपदं
साधयति इति कल्पयित्वा परो बदति कुतो ब्राह्मणत्वेन विद्याचरण-
संपत् बाल्ये व्यभिचारात् ( गौ० वृ० १।२।१३ ) इति । तदु-
क्तम् सामान्यच्छलमेतत्स्यादतिसामान्ययोगतः । तात्पर्यवैपरीत्येन कल्पि-
तार्थस्य बाधनम् ॥ ( ता० २० १ लो० ९६ ) इति । अत्र सामान्य-
विशिष्ट: संभवदर्यश्व एतद्राह्मणः । अतिसामान्यं तु ब्राह्मणत्वसामान्यम्
इति ज्ञेयम् ।
 
सामान्यतो दृष्टम् ( अनुमानम् ) [ क ] व्रज्यापूर्वकम् अन्यत्र दृष्टस्य
अन्यत्र दर्शनम् इति । यथा चादित्यस्य । तस्मादस्त्यप्रत्यक्षाप्यादित्यस्य
बज्येति । यत्राप्रत्यक्षे लिलिङ्गिनोः संबन्धे केनचिदर्थेन लिङ्गस्य
सामान्यादप्रत्यक्षो लिङ्गी गम्यते । यथा इच्छादिभिरात्मा । इच्छादयो
गुणाः । गुणाश्च द्रव्यसंस्थानाः । तद्यदेषां स्थानं स आत्मेति (वात्स्या०
१।१।५) । [ ख ] कार्यकारणमिन्नलिङ्गकमनुमानम् । यथा पृथिवी-
त्वेन द्रव्यत्वानुमानम् । [ग] अन्वयव्यतिरेक्यनुमानम् । यथा वह्निमान्
धूमात् इत्यादि ( गौ० वृ० ११११५ ) ।
 
-
 
सामान्यप्रत्यासत्तिः - सामान्य लक्षणशब्दवदस्यार्थोनुसंधेयः ।
सामान्यलक्षण:-( अलौकिक: संनिकर्ष: ) अलौकिक प्रत्यक्षविशेषे कारणं
संनिकर्षविशेषः । स च १ [क] इन्द्रियसंबद्ध विशेष्यकज्ञानप्रकारी-
भूतं सामान्यम् । यथा घटत्वघूमत्वादि । अत्रार्थे सामान्यं लक्षणं
स्वरूपं यस्य इति व्युत्पस्या सामान्यमेव प्रत्यासत्तिः ( दीधि० २
पृ० ८० ) (मु० १ पृ० १२७ ) । अत्रेदं विज्ञेयम् । सामान्यं
ज्ञायमानमेव स्वाश्रयाणां संनिकर्षः । ज्ञायमानघटत्वसंनिकर्षेण घटा:
इत्याकारकं सकलघटानां प्रत्यक्षं जन्यते ( त० कौ० ) इति । तथा
यत्रेन्द्रियसंयुक्तो घूमादिः तद्विशेष्यकं घूमः इति ज्ञानं जातम् । तत्र
ज्ञाने घूमत्वं प्रकारः । तत्र घूमत्वेन संनिकर्षेण घूमाः इत्येवंरूपं सकल-
धूमविषयकं ज्ञानं जायते ( मु० १ पृ० १२७) (दीघि ० २