This page has not been fully proofread.

२०१२
 
न्यायकोचः ।
 
पुरुषादिनिष्ठं दण्डित्वरूपम् इति दण्डित्वादि दण्डवानातिरिक्तम् ( त०
कौ० पृ० २० ) इति । इदं सामान्यं कचिन्निव्यं धूमत्यादि कचिचा-
नित्यं घटादि ( मु० १ पृ० १२९) इति । ३ साधारणो व्यापको
वा धर्मः । यथा द्रव्यसामान्यलक्षणम् हेत्वाभाससामान्यनिरुक्तिः इत्यादौ
सामान्यशब्दार्थः । ४ सर्वशब्दबदस्यार्थोनुसंधेयः । यथा प्रतियोगितासा-
मान्ये यत्संबन्धावच्छिन्नत्व यद्धर्मावच्छिन्नत्व एतदुमयाभावः ( दीवि० )
(मु० २ व्याप्तिनि० ) इत्यादौ सामान्यशब्दस्यार्थः । तथा च प्रति-
योगितासामान्ये इत्यस्य सर्वासु प्रतियोगितासु इत्यर्थः । ५ साहित्य-
शास्त्रज्ञास्तु सादृश्यप्रयोजको धर्मः । यथा मुखं पद्ममिव सुन्दरम् इत्यादौ
सौन्दर्यादिः साधारणधर्मः सामान्यम् इत्याहुः । ६ मीमांसकाश्च अधिक
विषयकम् । यथा ब्राह्मणाय दधि दीयताम् कौण्डिन्याय तक्रम् इत्यादौ
दधिदानमधिकब्राह्मणविषयकत्वेन सामान्यम् इत्याहुः । अत्रेदमधिकं
विज्ञेयम् । सामान्यशास्त्रं च विशेषशास्त्रेण बाध्यते । यथा मा हिंस्या-
त्सर्वा भूतानि इति हिंसानिषेधः सर्वविषयः । वायव्य र श्वेतमालभेत इत्यादि
हिंसाशास्त्रं विशेषः । तेन सामान्यशास्त्रं वैधेतरविषय एवं प्रसरति इति ।
अत्र बाध्यबाधकभावस्तु समान एव विषये न तु भिन्ने विषये प्रवर्तते
इति नियमो द्रष्टव्यः । ७ आलंकारिकास्तु अलंकारविशेष इत्याहुः ।
तदुक्तम् सामान्यं प्रकृतस्यान्यतादात्म्यं सहशैर्गुणैः ( सा० द० परि० १०
लो० ९० ) इति ।
 
सामान्यगुणत्वम् –[क ] रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधि-
व्याप्यतावच्छेदक संयोग विभागवेगद्रवत्वावृत्तिजातिशून्यगुणत्वम् ( दि०
गु० पृ० १९३ ) ( ल० व० ) । यथा संख्यादीनां गुणानां सामा-
न्यगुणत्वम् । द्रव्यविभाजकतावच्छेदकं पृथिवीत्यादि । तव्याप्य-
तावच्छेदकं च गन्धवादि । तच्छ्रन्यत्वस्य संख्यादौ सवालक्षण-
समन्वयः । अत्रत्यपदप्रयोजनं कथ्यते । जलीयशुक्ररूपे वायोरनुष्णाशीत-
स्पर्शे च पृथिव्यादिशुक्वरूपस्पर्श व्यावृत्तजातिविशेषे मानाभावात् शुक्र-
रूपानुष्णाशीतपर्शयोर तिव्याप्तिवारणाय सत्यन्तं दलं दत्तम् । शब्द-