2023-02-20 00:57:36 by ambuda-bot
This page has not been fully proofread.
१०१०
न्यायकोशः ।
( सर्व० सं०
[च ] सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम्
पृ० २१६ औ० ) । सामान्यं द्विविधम् परम् अपरं चेति । अत्र
सूत्रम् सामान्यं विशेष इति बुद्ध्यपेक्षम् (बै० १ २ ३ ) इति ।
तदर्थश्च सामान्यं परसामान्यम् विशेषोपरसामान्यम् इति द्वयं बुद्ध्यपेक्षम् ।
बुद्धिरपेक्षा लक्षणं यस्य तत् । तथा च सामान्यं द्विविधम् परम् अपरं
च । तत्र परसामान्यं सत्ता । द्रव्यत्वादिकमपरसामान्यम् । तत्र सामान्य-
विशेषयोः परापरयोर्लक्षणं बुद्धिरेव । अनुवृत्तत्वबुद्धिः सामान्यस्य
व्यावृत्तत्वबुद्धिर्विशेषस्य लक्षणम् । अनुवृत्तत्वमधिकदेशवृत्तित्वम् ।
ब्यावृतत्वमल्पदेशवृत्तित्वम् (वै० वि० १/२/३ पृ० ५१-५२) ।
तथा च भाष्यम् द्विविधं सामान्यं परम् अपरं च । स्वविषयसर्वगतम्
अभेदात्मकम् अनेकवृत्ति एकद्विबहुष्वात्मस्वरूपानुवृत्ति प्रत्यय कारणम् ।
स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानम् अनुवृत्तिबुद्धिकारणमित्यर्थः ।
कथम् । प्रतिपिण्डं सामान्यापेक्षप्रबन्धज्ञानोत्पत्तावभ्यास प्रत्ययजनिता-
संस्कारादतीतज्ञानप्रबन्ध प्रत्ययावेक्षणाद्यत्समनुगतमस्ति तत्सामान्यम् इति ।
तत्र सत्ता परं सामान्यमनुवृत्तिप्रत्ययकारणमेव । यथा परस्पर विशिष्टेषु
चर्मवस्त्रकम्बलादिष्वेकस्मात्रीलीद्रव्याभिसंबन्धात् नीलम् नीलम् इति
प्रत्ययानुवृत्तिः तथा परस्परवि शिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत् सत्
इति प्रत्ययानुवृत्तिः । सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा
सत्ता इति सिद्धा सत्ता । सत्तासंबन्धात् सत् इति प्रत्ययानुवृत्तिः ।
तस्मात्सत्ता सामान्यमेव । अपरं द्रव्यत्वगुणस्वकर्मत्वादि । तञ्चानुवृत्ति
व्यावृत्तिप्रत्ययहेतुत्वात् सामान्यं विशेषश्च भवति । तत्र द्रव्यत्वं परस्पर-
विशिष्टेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम् गुणकर्मभ्यो
व्यावृत्तिप्रत्ययहेतुत्वाद्विशेषः । तथा गुणत्वं परस्पर विशिष्टेषु रूपादिष्धनु-
वृत्तिप्रत्ययहेतुत्वात् सामान्यम् द्रव्यकर्मभ्यो व्यावृत्तिप्रत्ययहेतुत्वाद्विशेषः ।
तथा कर्मस्वं परस्परबिशिष्टेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात् सामान्यम्
द्रव्यगुणेम्यो व्यावृत्तिहेतुत्वाद्विशेषः । एवम् पृथिवीत्वरूपत्वोत्क्षेपणत्व-
गोत्वपटत्वादीनां प्राण्यप्राणिगतानामनुवृत्तिव्यावृत्तिप्रत्ययहेतुत्वात् सामा-
न्यविशेषभावः सिद्धः । तानि द्रब्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन