2023-02-20 00:57:36 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१००९
तावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नविधेयताकत्वम् । यथा
पर्वतो बहिमान् इत्याकारकानुमितेः वहिपर्वतत्वयोः सामानाधिकरण्य-
मात्रविवक्षायाम् तयोरवच्छेद्यावच्छेदकभावाविवक्षायाम् सामानाधिकरण्य-
मात्रावगाहित्यम् । प्राबस्तु पक्षतावच्छेदकाकान्तयत्किंचिद्व्यक्तिविषयकत्वं
सामानाधिकरण्यमात्रावगा हित्वम् इत्याहुः ( ग० २ पक्ष० पृ० २० ) ।
[ख] तद्वदनुयोगिकप्रतियोगित्वम् । प्रतियोगितासंबन्धेन तद्वदनु-
योगिकवस्त्वम् इत्यर्थः ( ग० २ व्याप्ति० सिद्धा० ) । यथा द्रव्यत्व-
पृथिवीत्वयोः सामानाधिकरण्यम् । तथा हि द्रव्यत्ववान् घटः । तदनु-
योगिकः घंटे पृथिवीत्वस्य समवायाख्यः संबन्धः । तत्प्रतियोगित्वं
पृथिवीत्वेस्ति इति । [ग] स्वावच्छेदकीभूतो यः कालस्तदवच्छिन्ना
या स्वविशिष्टनिरूपिता यत्किंचिद्यक्तिनिष्ठाघेयता सा । यथा यदा
सिषाधयिषा नासीत् सिद्धिश्वासीत्तदा सिद्धिसिषाधयिषाविरहयोः
सामानाधिकरण्यम् । इदं च एकक्षणावच्छिन्नसामानाधिकरण्यम् इत्यु-
च्यते । २ [क] अभेदान्वयबोधकत्वम् । यथा नीलो घटः इत्यादौ
नीलपदघटपदयोः सामानाधिकरण्यम् । [ख] शाब्दिकास्तु पदयोरेका-
र्थाभिषायित्वम् [ग] समानविभक्तिकत्वं बा । यथा नीलो घटः इत्यादौ
नीलपदघटपदयोः सामानाधिकरण्यम् इत्याहु: (वै० सा० ८० ) ।
[ष ] प्रकारद्वयविशिष्टैकवस्तुबोधकत्वम् । प्रकारद्वयविशिष्टैकवस्तु-
परत्वात्सामानाधिकरण्यस्य ( सर्व० सं० पृ० १०१ रामानु० ) ।
-
सामान्यम् - १ ( पदार्थः ) [ क ] या समानां बुद्धिं प्रसूते भिन्नेष्व-
धिकरणेषु यया बहूनीतरेतरतो न व्यावर्तन्ते योर्थोनेकत्र प्रत्ययानुवृत्ति-
निमित्तम् तरसामान्यम् (वात्स्या० २१२१६८ ) ( प्रशस्त ० १ पृ० २ )
( त० भा० ) । अत्र व्युत्पत्तिः समानानां भावोनागन्तुको नित्यो धर्मः
सामान्यम् ( प० मा० ) इति । तच्च द्रव्यगुणकर्मवृत्ति नित्यं चेति
बोध्यम् । [ख] नित्यत्वे सति स्वाश्रयान्योन्याभावसमानाधिकरणम् ।
[ग] नित्यवे सत्यनेकसमवेतम् । [ घ ] सामान्यं नित्यमेकं स्याद-
नेकसमवायि च ( ता० र० श्लो० ५३ ) इति । [ङ ] अनुगतो धर्मः ।
१२७ व्या० को●