This page has not been fully proofread.

१००८
 
न्यायकोशः ।
 
भूतलादेरेव घटाभावादेः संसर्गतया घटकाले च तच्छ्रन्यकालविशिष्ट-
भूतलादिरूपसंसर्गस्याभावेन तदा न तदत्यन्ताभावबुद्धिः (नील० )
इति । घटाभाववति घटानयनेत्यन्ताभावस्यान्यत्र गमनाभावेप्यप्रतीतेः
घटापसरणे सति तु प्रतीतेश्च भूतले घटसंयोगप्रागभावध्वंसयोर्घटाभाव-
प्रतीतेर्नियामकत्वं कल्यते । घटवति तत्संयोगप्रागभावध्वंसयोरसस्वाद-
त्यन्ताभावस्या प्रतीतिः घटापसरणे च संयोगध्वंससत्त्वात् प्रतीतिः
( त० दी० पृ० ४१ ) इति ।
 
सामर्थ्यम् – १ यत्किंचित्कार्यजननयोग्यत्वम् ( दीधि ० २ १० २०९ ) ।
तच्च यथा साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्ध कार्यक-
लिङ्गत्वम् ( चि० २ पृ० ९४ ) इत्यादौ प्रन्थे समर्थशब्दार्थघटकम्
विरोधिपरामर्शस्य विरोध्यनुमितिजननयोग्यत्वरूपं सामर्थ्यम् । २ कचित्
आकाङ्क्षायोग्यतादिमत्त्वम् ( गौ० वृ० २/१/५२ ) । यथा आप्तोपदेश -
सामर्थ्यात्० ( वात्स्या २।१।५२ ) इति । ३ समासाघटकपद-
निराकाङ्क्षत्वे सति परस्परसमासघटकपदसाकाङ्क्षत्वम् ( कृष्णं ० ) । यथा
राजपुरुषः इत्यादौ राजपदपुरुषपदयोः सामर्थ्यम् । एतच्च सामर्थ्य
द्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति । अयं च शाब्दिकविभागः
इति बोध्यम् । तत्र व्यपेक्षा च स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादि-
बशात्परस्परं संबन्धवत्त्वे सत्येकोपस्थित्यजनकत्वम् इति । एकार्थी-
भावश्च विशेषणविशेष्यभावावगाह्ये कोपस्थितिजनकत्वम् इति । शिष्टं तु
समासशब्दव्याख्याने दृश्यम् ।
 
w
 
प्रामानाधिकरण्यम् – १ [ क ] तदधिकरणवृत्तित्वम् । यथा वह्निघूमयोः
सामानाधिकरण्यम् । इदं सामानाधिकरण्यं द्विविधम् दैशिकम् कालिकं
चेति । तत्र दैशिकं सामानाधिकरण्यं यथा बहिघूमयोः सामाना
धिकरण्यम् । कालिकं सामानाधिकरण्यं यथा एककालावच्छेदेन
वर्तमानयोः विभिन्नदेशाधिकरणकयोरपि घटपटयोः सामानाधिकरण्यम्
इति बिज्ञेयम् । अत्रेदं प्रसङ्गतो विज्ञेयम् । अनुमितेः सामानाधिकरण्य-
मात्राषगाहित्वं व पक्षतावच्छेदकावच्छिन्नोदेश्यतानिरूपितशुद्धसाभ्य-