This page has not been fully proofread.

१००६
 
न्यायकोशः ।
 
वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि इत्यस्या ऋचो
गानं च शोमा र आयाही ३ वीइतोया २ इ तोया २ इ गृणानो ह
व्यदातो २ इ तोया २ इ ना इहोतासा २३ त्सा २ इ वा २३४
औहोवा ही २३४ षी इति ( छन्द आर्चिकः १/१/१/१ ) । अत्र
प्रमाणम् ऋच्यध्यूढ५ साम गीयते ( छान्दो० उ० १ । ६ । १ ) । तस्मात्ति-
सृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृमिर्हि साम संमितम् ( ऐतरे●
ब्रा० ३।२३ ) इत्यादि । ३ नीतिशास्त्रज्ञास्तु राज्ञ उपायविशेष इत्याहुः ।
इदं साम द्विविधम् तथ्यम् अतथ्यं च । तत्र तथ्येन साम्ना साधुजनः
साध्यः । अतथ्यं तु सामासाधुषु प्रयोक्तव्यम् (मत्स्यपु० अ० २२१ )
इति । अधिकं तु शुक्रनीति परिशिष्टादौ विज्ञेयम् । ४ शत्रुवशीकरणो-
पायः इति मात्रिका आहुः । ५ पशुबन्धनरज्जुः । ६ प्रियवाक्यादिना
सान्त्वनं च इति काव्यज्ञा आहुः ( वाच० ) ।
 
सामग्री–कार्यायोगव्यवच्छिन्नः कारणसमुदाय: । यथा प्रत्यक्षस्य सामग्री
इन्द्रियसंनिकर्षादिः । अनुमितेः सामग्री व्याप्तिज्ञानपरामर्शादिः । यथा वा
घटादिकार्यस्य सामग्री कुलालदण्डचक्रादिः । पटादिकार्यस्य च कुविन्द-
तन्तुतुरीसंयोगादिः । अत्रेदं विज्ञेयम् । समाने विषये प्रत्यक्षानुमिति -
सामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला । भिन्नविषये तु अनुमितिसामग्री
प्रबला । समानविषये प्रत्यक्षशाब्दसामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला ।
भिन्नविषये तु शाब्दसामग्री प्रबला । समानविषये अनुमितिशाब्द-
सामग्र्योर्मध्ये शाब्दसामग्री प्रबला । मिन्नविषये तु अनुमितिसामग्री
प्रबला । मानसलौकिकप्रत्यक्षसामग्र्योर्मध्ये लौकिकप्रत्यक्षसामग्री प्रबला ।
मानससामग्री तु सर्वापेक्षया दुर्बला । परं तु यदा फलविषयिणी-
च्छास्ति । तदा तत्रत्या दुर्बलापि सामग्री प्रबला भवति इति विज्ञेयम्
( त० प्र० ४ ) । समाने विषये प्रत्यक्षानुमितिसामग्र्योर्मध्ये प्रत्यक्ष-
सामग्री प्रबला यथा यत्र पर्वतादौ बहध । दिप्रत्यक्षजनिकाया चक्षुःसंनि-
कर्षादिघटितसामग्र्याः तत्रैव षड्यनुमितिज निकायाः परामर्शादिघटित-
सामग्र्याश्च युगपत्सत्त्वे प्रबलेन दुर्बलस्य बाधः इति न्यायेन पूर्वोक्तप्रत्यक्ष-