This page has not been fully proofread.

यो ।
 
अपक्षेपणम् ~ (कर्म) [ क ] अधोदेशसंयोगहेतुः कर्म ( त० सं० )
( त० कौ० २० ) । [ ख ] तद्विपर्ययेण ( उत्क्षेपणविपर्ययेण)
संयोगविभागकारणं कर्म ( प्रशस्त० पृ० ३७ ) । तलक्षणं च
अधोदेश संयोगजनकक्रियानुकूलक्रियात्बम् ( ७० ब० ३८ ) ।
अपगमः --स्पन्दः (ग० हेतु० ) । यथा वृक्षादपैतीत्यादौ धात्वर्थः ।
अपचिकीर्षा – ( द्रोह ) अहितेच्छा ( ग० व्यु० ४ ) ।
 
-
 
अपदेशः - १ कथनम् (गौ० १० ३।२।२३) । यथा नोत्पत्तिकारणान-
पदेशात् ( गौ० ३१२ । २३ ) इत्यादौ । २ हेतुः । यथा सोनपदेशः
इत्यादौ ( ३० ३ । १ । ३ ) ।
 
अपरत्वम् – १ व्याप्यत्वम् । यथा सामान्यं द्विविधं प्रोक्तं परं चापरमेष
च (भा०प० लो० ८) इत्यादी अपरत्वशब्दस्वार्थः । अस्पदेशवृत्तित्वम्
(मु० १ । ३४ ) । यथा घटत्वजातेद्रव्यत्वपृथिवीत्वे अपेक्ष्यास्पदेशवृत्ति
त्वम् । २ ( गुणः ) अपरव्यवहारे असाधारणं कारणम् ( त० सं० )
( त० कौ० ६ ) । अपरव्यवहारजनकतावच्छेदकतादृशप्रकारताश्रयत्वं
लक्षणमित्यर्थः (वाक्य० ) । यथा अयं कनिष्ठः अयं समीप इत्यादौ
कनिष्ठसमीपयोरपरत्वम् (वाक्य ० ) । तद्विविधम् । दिकृतम् कालकृतम् ।
समीपस्थे दिक्तमपरत्वम् । कनिष्ठे कालपरत्वम् ( त० सं० )।
पर्यायान्तरेणाप्यपरत्वप्रपञ्चः कथ्यते । तद्यथा यो यदपेक्षया सैनि हितस्तत्र
तदबधिकमपरत्वं दिकृतम् । अत्र दिपिण्डसंयोगोसमबायिकारणम् ।
संनिहितत्वज्ञानं निमित्तम् । तन्नाशच तनाशनिमित्तम् । दिकृतमपरत्वं मू-
र्तद्रव्यमात्रवृत्ति भवति । यो यदपेक्षया कनिष्ठस्तत्र तदवधिकमपरत्वं
कालकृतम् । अत्र काळपिण्डसंयोगोसमकाधिकारणम् । कनिष्ठत्वज्ञानं निमि-
त्तम् । तन्नाशच तन्नाशनिमित्तम् । कालकतमपरत्वं तु जन्मद्रव्यमात्रवृत्ति
भवति ( त० कौ० ६ ) ( सि० च० ११ १८) । अत्र दिकृतस्वं च
ज्ञायमानदिग्जन्पत्वम् ( बाक्य ० ) । अल्पतरमूर्तसंयोगविशिष्टशरीरशाना-
दपरत्वमुत्पद्यत इति ( सि० च० ११ १८ ) । यथा झळकीमामात्सो-