2023-02-20 00:57:36 by ambuda-bot
This page has not been fully proofread.
न्यायकोयः ।
तुल्यतापादनम् ( गौ० दृ० ५/११४ ) । [ग] दृष्टान्तस्य पक्षतुल्यता-
कथनं साध्यसमः । साध्यशब्दोत्र पक्षवाची ( नील० पृ० ४३ ) ।
तथा चोक्तम् दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् । साभ्यत्वा-
पादनं तस्मालिङ्गात्साध्यसमो भवेत् ॥ ( ता० २० २ श्लो० ११० )
इति । यथा वा नाभिधा समयाभावात् ( काव्यप्र० २१ २२ ) इत्यत्र
नैयायिकमते साध्यसमः । मीमांसकमते नायं दोषः । अभिधासमययो-
र्भेदात् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्वात् इत्यादौ यदि यथा
लोष्टस्तथात्मेति त्वयोच्यते तदा यथात्मा तथा लोष्ट इत्यप्यायातम् । तथा
च यद्यात्मनि कियावत्वं साध्यते तर्हि लोटेपि तत्साधनीयम् । नेति
चेत्तर्हि यथा लोष्टस्तथात्मेति न वाच्यम् । लोष्टसदृश आत्मा नात्म-
सदृशो लोष्टः इत्यत्र नियामकाभावादिति ( नील० १ पृ० ४३ ) ।
साध्याप्रसिद्धिः - ( हेतुदोषः असिद्धिः ) साध्ये साध्यतावच्छेदकस्या-
भावः । यथा पर्वतः काञ्चनमयवह्निमान् घूमात् इत्यादौ वह्निनिष्ठः
काञ्चनमयत्वाभावः साध्याप्रसिद्धिः । अयं च व्याप्यत्वासिद्धिप्रभेदः
( गौ० वृ० ११२१८ ) (मु० २ पृ० १६१ ) ( नील० ) ( न्या०
म० २ पृ० २१ ) ( म० प्र० २ पृ० २७ ) (वै० वि० ३ । १ । १५)।
तल्लक्षणं च साध्ये साध्यतावच्छेदक वैशिष्ट्यावगाहिग्रहविरोधिग्रहविषयत्वम् ।
एतज्ज्ञाने जाते साध्यतावच्छेदक विशिष्टसाध्यपरामर्शप्रतिबन्धः फलम् ।
तथा च प्रतिबन्धकता घटित
हेत्वाभाससामान्यलक्षणाक्रान्तत्वं साध्या-
प्रसिद्धेः संगच्छते इति ।
-
सानन्दः - ( समाधिः ) यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुख-
प्रकाशमयस्य सत्त्वस्योद्रेकात्सानन्दः ( सर्व० सं० १० ३५७ पात० ) ।
सापिण्ड्यम् – सपिण्डता ।
-
सापेक्षत्वम् – १ असामर्थ्यम् । २ अभिलाष विशिष्टत्वम् इति काव्यज्ञा आडुः ।
साम - १ वेदविशेषः । गीतिरूपा मन्त्राः सामानि ( जै० न्या० अ० २
पा० १ अधि० १२) । यथा अग्न आयाहि वीतये इत्यादिः ।
२ सामवेदोक्तामृचमधिकृत्य गेयो गानविशेषः । यथा अग्न आयाहि