This page has not been fully proofread.

न्यायकोशः ।
 
-
 
साध्यसंसृष्टत्वज्ञानम् – १ सिद्धिः । अयमर्थो गदाधर्यो पक्षतायां सिद्धि-
ग्रन्थे तत्रत्यशब्दार्थसंकलन वेलायामुपयुज्यते । २ साध्यसंबन्ध विषयकं
ज्ञानम् (मु० २ पृ० १६४) ।
 
१००४
 
-
 
साध्यसमः - १ ( हेत्वाभासः असिद्धः ) साध्याविशिष्टः साध्यत्वात्साभ्य-
समः ( गौ० ११२१८ ) । तदर्थव साध्येन वड्यादिना अविशिष्टः ।
कुत इत्यत आह साध्यत्वादिति । साधनीयत्वादित्यर्थः । यथा हि साध्यं
साधनीयम् तथा हेतुरपि चेत् साभ्यसमः इत्युच्यते । अत एव च
असिद्धः इति व्यवद्दियते ( गौ० दृ० १९१ । २१८ ) । अत्रोच्यते असिद्धः
साध्यतुल्यस्वाद्धेतुः साध्यसमो भवेत् ( ता० र० लो० ८४ ) इति ।
अत्र व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिशब्दार्थः । द्रव्यं छायेति साध्यम् ।
गतिमत्वादिति हेतुः । साध्येनाविशिष्टः साधनीयत्वारसाध्यसमः । कथम् ।
अयमप्यसिद्धत्वात् साध्यवत्प्रज्ञापयितव्यः । साध्यं तावदेतत् किं पुरुष-
वच्छायापि गच्छति आहोस्विदावरकद्रव्ये संसर्पव्यावरण संता- (संनिधा) -
नादसंनिधिसंतानोयं तेजसो गृह्यत इति । सर्पता खरु द्रव्येण यो
यस्तेजोमाग आवियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यत इति ।
आवरणं तु प्राप्तिप्रतिषेधः ( वात्स्या० ११२१८ ) । २ ( जाति: )
[क] साध्यदृष्टान्तयोर्धर्म विकल्पादुभयसाध्यत्वात्साध्यसमः ( गौ०
५/११४ ) । सूत्रार्थस्तु उभयसाध्यत्वात् उभयं पक्षदृष्टान्तौ । तद्धर्मो
हेत्वादिः । तत्साध्यत्वं तदधीनानुमितिविषयत्वम् । साध्यस्येव पक्षादेर-
पीति तुल्यतापादन मिति । लिङ्गोपहितभानमते लिङ्गस्यानुमितिविषयत्वात्
साध्यसमत्वम् । हेतोच साध्यत्वे हेतुमान्दृष्टान्तोपि साध्यः इत्याशयः ।
आश्रयासियादिदेशनाभासोयम् इति ज्ञेयम् ( गौ० १० ५/१४ ) ।
हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः । तं दृष्टान्ते प्रसजतः साध्यसमः ।
यथा आत्मा सक्रियः क्रियाहेतुगुणयोगात् इत्यादौ यदि यथा लोष्ट-
स्तथात्मा प्राप्तस्तर्हि यथात्मा तथा लोष्ट इति । साध्यश्चायमात्मा क्रिया-
वानिति कामं लोष्टोपि साध्यः । अथ नैवम् । न तर्हि यथा लोष्ट -
स्तयारमा ( वात्स्या० ५११४ ) । [ख] पक्षदृष्टान्तादेः प्रकृतसाध्य-