2023-02-20 00:57:35 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
साध्यत्वम् साध्यता ।
साध्यप्रसिद्धिः -[ क ] सिद्धिः । [ख ] साध्यस्य ज्ञानम् ।
-
१००३
साध्यम् – १ साधनीयम् । तच्च साध्यत्ववत् । यथा पर्वतो वह्निमान् घूमात्
इत्यादौ वह्निः साध्यम् (मु० २ ) । साध्यं च द्विविधम् धर्मिविशिष्टो
वा धर्मः । यथा शब्दस्यानित्यत्वम् इति । धर्मविशिष्टो वा धर्मी । यथा
अनित्यः शब्दः इति ( वात्स्या ० १ । १ । ३६ ) । २ [ क ] व्यवहार-
शास्त्रज्ञास्तु अष्टादश विवादेषु प्रमाणादिनोद्भाव्यः पदार्थः । साक्षिलेल्या-
नुमानरूपक्रियादिना साधनीयं यत् तत् ( रकम इति प्र० ) । यथा
ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाभ्यधिके वार्थे प्रोक्ते
साध्यं न सिध्यति ॥ ( कात्या० वीरमित्रो० पृ० १२४ ) इत्यादौ
साध्यशब्दस्यार्थः । [ ख ] साध्यार्हः प्रतिज्ञेयः पक्षः । तदुक्तं बृहस्पतिना
प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धं च पक्षं
पक्षविदो विदुः ॥ इति । अत्र साध्यं साध्याम् । प्रत्यर्थिधर्मविशिष्टं
धर्मिवचनम् इति यावत् ( वीरमित्रो० लेख्य० पृ० ६९) । ३ पक्षः
( गौ० १० ११ १२ १३८ ) । यथा उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति
वा साध्यस्योपनयः ( गौ० ११ ११३८ ) इत्यादौ साध्यशन्दस्यार्थः पक्षः ।
४ शाब्दिकास्तु लिङ्गसंख्यानन्वयिनी क्रिया । यथा पचति करोति
इत्यादिक्रिया इत्याहुः । अत्रोक्तं हरिणा साध्यरूपा क्रिया तत्र धातुरूप-
निबन्धना (वाक्यप० ) इति । शिष्टं तु क्रियाशब्दव्याख्याने दृश्यम् । अत्र
साध्यत्वं च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेद करूपवत्त्वम् इति बोध्यम् ।
५ पौराणिकास्तु द्वादशसंख्यको गणदेवताविशेष इत्याहुः । तदुक्तम्
मनोमन्ता तथा प्राणो भरोपानश्च वीर्यवान् । निर्भयो नरकश्चैव दंशो
नारायणो वृषः ॥ प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः इति ।
६ मौहूर्तिकाश्च स्वशास्त्रीययत्किंचित्संकेतविषयः । यथा विष्कम्भादिषु
(२७) योगेषु द्वाविंशो योगविशेषः इत्याहुः । ७ मान्त्रिकादयस्तु
स्वानुकूलताप्राहकः पदार्थः मन्त्रविशेषादिः इत्यङ्गीचक्रुः । अत्रोक्तम्
सिद्धः साध्यः सुसिद्धोरिः क्रमाज्ज्ञेया मनीषिभिः ( बाच० ) इति ।
०