This page has not been fully proofread.

न्यायकोशः ।
 
मिता० १० १६७ ) इत्यादौ साधारणशब्दस्यार्थ इत्याहु: ( अमरः
३।१।८२ ) । अन्यदप्युदाह्वियते साधारणं समाश्रित्य यत्किंचिद्वाहनादि-
कम् ( स्मृतिः ) इति । ४ सदृशम् इति साहित्यशास्त्रज्ञा आहुः ( अमरः
२।१०।३७) । ५ वेश्यादिनायिका साधारणी इत्यालंकारिका आहुः ।
६ कुञ्चिका इति काव्यज्ञा आहुः ।
 
साधारणकारणत्वम् – ( कारणत्वम् ) [ क ] कार्यत्वावच्छिन्नकार्यता-
निरूपितकारणत्वम् । यथा ईश्वरतज्ज्ञानादेः कार्यमात्रे ( कार्यत्वावच्छिन्नं
प्रत्येष ) कारणत्वात् साधारणकारणत्वम् ( वाक्य० १ पृ० १०)
( न्या० बी० १ पृ० ८ ) । अत्र ईश्वरज्ञानस्य च ज्ञानत्वेन कार्यत्रेन
कार्यकारणभावात् सामान्यधर्मावच्छिन्न कार्यतानिरूपितकारणताश्रयत्वेन
घटं प्रत्यपि साधारणकारणत्वम् ( म० प्र० १ पृ० ५ ) । [ ख ]
सामान्यधर्मावच्छिन्नकार्यतानिरूपित कारणत्वम् ( म० प्र० १ पृ० ५ ) ।
अत्रायमाशयः । कार्यमात्रं प्रतीश्वरज्ञानादिकं कारणम् इति कार्यकारण-
भाषः । न तु घटं प्रति दण्डः पटं प्रति तन्तुः कारणम् इति विशिष्य
कार्यकारणभाववत् घटादिकं प्रतीश्वरादिकं कारणम् इति कार्यकारण-
भावः इति । अत्रेदं ज्ञेयम् । अष्टौ साधारणकारणानि ईश्वरः तज्ज्ञा-
नेच्छाकृतयः प्रागभावः कालः दिक् अदृष्टम् ( धर्माधर्मों ) च
( वाक्य ० १ पृ० १०) इति । केचित प्रतिबन्धकसामान्याभावोपि
नवमं साधारणकारणमङ्गीचक्रुः (मु० ११ १) ।
साधारणत्वम् –( हेत्वाभास: हेतुदोषः ) [ क ] पक्षादित्रयवृत्तित्वम् ।
मत्र पक्षादित्रयं च पक्षः सपक्षः विपक्षध । तेषु वर्तमानत्वम् इति
विशिष्टस्यार्थः । यथा पर्वतो वह्निमान् प्रमेयत्वात् इत्यादौ प्रमेयत्वस्य
साधारणत्वम् । अत्र प्रमेयत्वात्मकहेतोः पक्षे पर्वते सपक्षे महानसे विपक्षे
महाहृदादौ च बर्तमानत्वात्साधारणत्वम् इति बोध्यम् । [ख] विपक्ष-
वृत्तित्वम् ( चि० २ सव्य० पृ० ८७ ) । अत्र विपक्षः साध्याभाबवान्
इति नष्यमतम् । विपक्षः निश्चितसाध्याभाववान् इति प्राचीनमतम् इति
विज्ञेयम् ( दीभि० २ सव्य० पृ० १९३ ) । [ म ] साध्यात्यन्ताभाव-