This page has not been fully proofread.

न्यायकोशः ।
 
नित्याकाशसाधर्म्यादमूर्तस्वान्नित्यः स्यात् । विशेषो वा वक्तव्यः ( गौ० वृ०
५।११२ ) इति । [ग] साधर्म्येण स्थापनाहेतुदूषकमुत्तरम् । यथा
आत्मा सक्रियः क्रियाहेतुगुणवत्वाल्लोष्टवत् इति स्थापनायामुचरम् । यदि
सक्रियसाधर्म्यात्सक्रियस्तदा विभुत्वरूप निष्क्रिय साधर्म्यान्निष्क्रिय एव किं
न स्यात् । न चात्र किंचिद्विनिगमकमस्ति इति । क्रियाहेतुगुणश्चात्र
क्रियाजनकवायुसंयोगादिरेष इति बोध्यम् ( नील० १ पृ० ४३ ) ।
साधर्म्यादाहरणम् – अन्वय्युदाहरणम् ।
साधर्म्यापनय: -अन्वय्युपनयः ।
 
साधारण: - १ ( हेत्वाभासः दुष्टहेतुः ) । [क] सपक्षविपक्षवृतिर्हेतुः
( मा०प० २ को० ७४ ) । यथा पर्वतो बहिमान्प्रमेयत्वात् इत्यादौ
प्रमेयत्वं हेतुः साधारणः । अत्र प्रमेयस्वं हेतुर्हि सपक्षे महानसे विपक्षे
महाइदादौ च वर्तते । अतः साधारण: ( त० सं० ) । एवम् पर्वतो
घूमवान् वहेः इत्यादाबपि । वहिईि सपक्षे महानसे विपक्षे तप्तायः-
पिण्डादौ च वर्तते । अतः साधारणः ( त० कौ० २ पृ० १३ ) ।
इदं लक्षणं च प्राचीनमतमनुरुष्योक्तम् । अत्र प्राचीनमते साधारणहेतु-
ज्ञानेन साध्यसंदेहाव्याप्तिग्रहो न भवति इत्याशयः (गौ० वृ० १/२/५ ) ।
अयं चानैकान्तिकप्रभेदः । तल्लक्षणं च वक्ष्यमाणं साधारणत्वमेव इति
बोध्यम् । अर्वाञ्चो नैयायिकास्तु साधारणमेव हेतुं सव्यभिचारपदेन व्यव-
हरन्ति इति दीधितिकृदाह ( दीधि ० २ सव्य ० १० १८३ ) । [ ख ]
साध्यात्यन्ताभाबवति साम्यवदन्यस्मिन्ना वर्तमानो हेतुः । यथा शब्दो
नित्यो निःस्पर्शत्वात् इत्यादौ निःस्पर्शस्वं साधारण: ( गौ० १० १/२/५)
( मु० २ पृ० १५९ ) ( त० सं० ) ( बाक्य ० ) । अत्र निःस्पर्शत्वं
हेतुर्हि अनिये रूपादौ वर्तत इति साधारणो भवति इति ज्ञेयम् ।
२ ( जाति: ) नित्यसमविशेषः । स व स्वव्याघातकमुत्तरं भवति
( सर्व० १० १५३ पूर्ण० ) । ३ व्यवहारशास्त्रज्ञास्तु अनेकस्वत्व-
कमेकं धनं साधारणम् । यथा अलंकारोपि यो येन घृतः स
तस्यैव । अघृतः साधारणो विभाज्य एव ( याइ० अ० २ को० १२२
 
836