This page has not been fully proofread.

न्यायकोशः ।
 
दीनि तदवृत्तिर्या जातिः ज्ञानत्वादिः तद्वान् विशेषगुणः ज्ञानादिः तद्वत्त्व-
स्यात्मादौ सत्त्वालक्षणसमन्वयः ( दि० १।१ पृ० ६१) । भत्रेदं
बोध्यम् । यद्याकाशजीवात्मनोरेव साधर्म्यमुच्यते तदास्मिन्परिष्कारे जन्य
इति पदं न देयम् । द्वेषत्वादिकं धर्ममादाय तत्र लक्षणसमन्वयः कर्तव्यः
(मु० १।१ पृ० ६१) । एवमन्येषामपि तत्तत्साधर्म्य स्वयमूह्यम् ।
( किर० १११ पृ० ३९ ) । तथा हि । रूपादीनां गुणानां सर्वेषां
गुणत्वाभिसंबन्ध: गुणादीनां द्रव्याश्रितत्वम् समवायिकारणत्वानाश्रयत्वं
च साधर्म्यम् इत्यादि ( प्रशस्त० पृ० ११) ।
 
साधर्म्यसमः – ( जातिः ) [ क ] साधर्म्येणोपसंहारे तद्धर्मविपर्ययोपपत्तेः
-
साधर्म्यसमः ( गौ० ५११/२ ) । तदर्थश्च उपसंहारे साध्यस्योपसंहरणे
बादिना कृते तद्धर्मस्य साध्यरूपधर्मस्य यो विपर्ययो व्यतिरेकः तस्य
साधर्म्येण केवलेन व्यायनपेक्षेण यदुपपादनम् ततो हेतोः साधर्म्यसम
उच्यते ( गौ० वृ० ५/१/२ ) इति । साधर्म्यमात्रं गमकतौपयिकम्
इत्यभिमानात् सत्प्रतिपक्षदेशनाभासोयम् । वार्तिक कृतस्तु अयमनैका-
न्तिकदेशनाभासः इत्यङ्गीचक्रुः (गौ० वृ० ५ / १/२ ) । अत्र भाष्यम् ।
साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येणैव प्रत्यवस्थानम
विशिष्यमाणं स्थापना हेतुतः साधर्म्यसमः प्रतिषेधः । निदर्शनम् क्रिया-
वानात्मा । द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्टः क्रियाहेतुगुणयुक्तः
क्रियावान् । तथा चात्मा । तस्मात्क्रियावान् इति । एवमुपसंहृते परः
साधर्म्येणैत्र प्रत्यवतिष्ठते । निष्क्रिय आत्मा । विभुनो द्रव्यस्य निष्क्रियत्वात् ।
विभु चाकाशं निष्क्रियं च । तथा चात्मा । तस्मानिष्क्रियः इति । न
चास्ति विशेषहेतुः क्रियावत्साधर्म्यात् क्रियाबता भवितव्यम् न पुनर-
क्रियसाधर्म्यान्निष्क्रियेण इति । विशेषहेत्वभावात् साधर्म्यसमः प्रतिषेधो
भवति ( वात्स्या० ५१११२ ) । [ ख ] वादिनान्वयेन व्यतिरेकेण वा
साध्ये साधिते प्रतिवादिनः साधर्म्यमात्रप्रवृत्तहेतुना तदभावापादनम् ।
यथा शब्दः अनित्यः कृतकत्वाद्धटवत् व्यतिरेकेण वा व्योमवत् इत्युप-
संहृते नैतदेवम् यद्यनित्य घटसाधर्म्यानित्याकाशवैधर्म्याद्वा अनिष्यः स्यात्