This page has not been fully proofread.

न्यायकोशः ।
 
द्रव्याणाम् । गुणाश्रयवृत्तिसत्ताभिन्नजातिमत्त्वम् इत्यर्थः ( ७० ब० )
( त० दी० १ पृ० ५) । गुणसमानाधिकरणमनोवृत्तिधर्मवस्वं क्षित्या-
चष्टद्रव्याणाम् । आत्ममनः संयोगाश्रयावृत्तिद्रव्यविभाजकधर्मवत्वं क्षित्या-
दिसप्तानाम् । जगदाधारत्वभूतत्वान्यतरवत्त्वं क्षित्यादीनां षण्णाम् ।
पृथिव्यादीनां पञ्चानां भूतत्वम् इन्द्रियप्रकृतित्वं च । पृथिव्यादिचतुर्णा
द्रव्यारम्भकत्वम् स्पर्शवत्त्वं च । द्रव्यारम्भकत्वं च द्रव्यसमवायिकारण-
वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम् । तेन न द्रव्यानारम्भकघटादावव्याप्तिः
( मु० १ पृ० ५९ ) । रूपवत्त्वम् द्रवत्ववत्त्वम् प्रत्यक्षविषयत्वं च
पृथिव्यादित्रयस्य । गुरुत्ववत्त्वम् रसवत्वं च पृथिवीजलयोः । नैमित्तिक-
द्रवत्ववत्वं पृथिवीतेजसोः । गन्धाश्रयावृत्तिद्रव्यविभाजकधर्मवत्त्वं जला-
चष्टद्रव्याणाम् । रसासमानाधिकरणद्रव्यविभाजकधर्मवत्वं तेजःप्रभृति-
सप्तद्रव्याणाम् । रूपासमानाधिकरणद्रव्यविभाजकधर्मवस्वं वाय्वादीनां
षण्णाम् । स्पर्शवदवृत्तिद्रव्यविभाजकधर्मवत्त्वमाकाशादीनां पञ्चानाम् ।
भूतावृत्तिद्रव्यविभाजकधर्मवत्त्वं कालादीनां चतुर्णाम् । कालौपाध्यसमाना-
धिकरणशब्दवदवृत्तिद्रव्यविभाजकोपाधिमत्वं दिगात्ममनसाम् । स्वसम
वायिकारणत्वस्वकरणेन्द्रियत्वान्यतरसंबन्धेन सुख प्रत्यक्षवत्त्वमात्ममनसोः ।
पृथिव्युदकज्वलनपवनजीवात्ममन सामनेकत्वापरजातिमत्त्वे । आकाश-
कालदिगात्मनां सर्वगतत्वम् (विभुत्वम्) परममहत्त्वम् सर्वसंयोगि-
समानदेशत्वं च । पृथिव्युदकजीवात्मनां चतुर्दशगुणवत्त्वम् । दिक्कालयोः
पञ्चगुणवस्त्रम् । सर्वोत्पत्तिमतां निमित्तकारणत्वम् । विशेषगुणवत्वं
भूतानाम् आत्मनां च । परत्वम् अपरत्वम् मूर्तत्वम् कर्मबस्वम् वेगवत्वं
च पृथिव्यादिचतुष्टयस्य मनसच । अव्याग्यवृत्तिविशेषगुणवत्रम् क्षणिक-
विशेषगुणवत्वं च आकाशजीवपरमात्मनाम् साधर्म्य भवति ( प्रशस्त ●
१।१ पृ० २) (भा० प० ) ( मु० १) (सि० च० ) इति ।
क्षणिकविशेषगुणवत्त्वं च चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वम्
( मु० १ पृ० ६१ ) । तथा हि । चतुःक्षणवृत्तीनि यानि जन्यानि घटा-
१ अनुत्तीति पदच्छेदः ।