This page has not been fully proofread.

I
 
न्यायकोचः ।
 
साभ्याम्पतराभावप्रसञ्जनम् । यथा शब्दः अनित्यः कृतकत्वादित्यत्र यद्यनि-
त्यत्वसहचरितघटधर्मात्कृतकत्वादनित्यः शब्दस्तदा कृतकत्वानित्यत्वसह-
चरितघटधर्मरूपवखव्यावृत्या शब्दे कृतकत्वस्यानित्यत्वस्य च व्यावृत्तिः
स्यात् । आद्ये असिद्धिदेशना । द्वितीये बाघदेशना । एवं शब्दे कृतकत्व-
सहचरितश्रावणत्त्रस्य संयोगादावनित्यत्वकृतकत्वसहचरितगुणत्वस्य च
व्यावृत्या घटे अनित्यत्वं कृतकत्वं च व्यावर्तेत इति दृष्टान्ते साध्यसाधन-
विकल्पदेशनाभासापीयम् ( गौ० १०५/१४ ) । अत्र लक्षणे व्याप्ति-
मपुरस्कृत्य सहचरितधर्माभावेन पक्षदृष्टान्तान्यतरस्मिन्हेतुसाध्यान्यतरा-
भावप्रसञ्जनमित्यन्वयः । अयमर्थः-व्याप्ति मनसि अगृहीत्वैन हेतुसा
घ्याभ्यां सहचरितो योन्यः कश्चिद्धर्मस्तस्य प्रकृतपक्षे दृष्टान्ते वा अभावं
दृष्ट्वा तत्साहचर्यात्साध्यस्य वा हेतोरपि वा अभावकल्पनमपकर्षसमः । यथा
शब्दः अनित्य इत्यादेः स्पष्ट एवार्थः । आद्ये असिद्धीत्यत्र आये नाम कृत-
कत्वरूपहेतोरभावकल्पनपक्षे । असिद्धिदेशना नाम स्वरूपासिद्धिरू-
पोक्तिः । दोष इति यावत् । प्राप्नोतीत्यर्थः । एवं च स हेतुः स्वरूपासिद्धो
भवति । द्वितीये बाधदेशनेतीत्यत्र अनित्यत्वरूप साध्यस्याभाव कल्पनपक्षे
बाधरूपोक्तिः । दोष इति यावत् । प्राप्नोतीत्यर्थः । एवमित्यस्य पूर्व यथा
पक्षे हेतुसाध्यान्यतराभाव उक्तस्तथेत्यर्थः । शब्दे कृतकत्वे त्यस्य शब्दे
कृतकत्वेन सह सहचरितस्य श्रावणत्वस्येत्यर्थः । अस्य व्यावृत्या सहा-
न्वयः । संयोगादावित्यादेः संयोगादावनित्यत्वेन कृतकत्वेन च सह सहच-
रितस्य गुणत्वस्येत्यर्थः । अस्यापि व्यावृत्या सहैषान्वयः । व्यावृत्येत्यस्
श्रावणत्यस्य गुणत्वस्य च घटे व्यावृत्येत्यर्थः । घटे अनित्यत्वमित्यादेः घटे
श्रावणत्वस्य गुणत्वस्य व्यावृत्या अनित्यत्वं कृतकत्वं च व्यावर्तेतेत्यर्थः ।
दृष्टान्ते इत्यादेः । एवं च घटरूपे दृष्टान्ते साभ्यस्य साधनस्य चाभावकल्पनया
साध्यसाधन विकल्पदेशनाभासापीयमित्यर्थः । [ग] परोक्तदृष्टान्तसाधर्म्येण
पक्षे पराभिमतधर्मान्तरस्याभावसाधनम् । यथा शब्दः अनित्यः कृतकृत्वा
इटवदित्यादौ यदि कृतकावेन शब्दो घटवदनित्यः स्यात्तर्हि तेनैव शब्दो
घटषदश्रावणोपि स्यादिति ( नील० ४३ ) ।