2023-02-20 00:57:33 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
पारिमाण्डल्यभिन्नानां पदार्थानां साधम्यै भवति । कार्यस्वानित्यत्वे
कारणवतामेव साधर्म्यं भवतः । आश्रितत्वं नित्यद्रव्यभिन्नानां पदार्थानां
साधर्म्यं भवति । अत्र आश्रितत्वं च सर्वाधारतानियामक संबन्धान्य-
संबन्धेन वृत्तिमत्त्वम् । तेन काले नातिव्याप्तिः (ल० व०) । निर्गुणत्वं
क्रियाशून्यत्वं च गुणादिष्टूस्य । निर्गुणत्त्रमित्यस्य गुणवदवृत्तिधर्मवत्त्वम्
इत्यर्थः । अत्रेदमधिकं बोध्यम् । गुणादिषट्स्य संख्यां विनापि धीविशेष-
विषयत्वमादायैकत्वादिप्रतीतेस्तद्यवहारस्य चोपपत्तिः कर्तव्या इति
( त० व० ) । गुणाधिकरणावृत्तिगुणावृत्तिधर्मत्रत्वं कर्मप्रभृतीनां
पानाम् । सामान्यशून्यत्वं सामान्यादीनां चतुर्णाम् । तदर्थश्च समवाय-
संबन्धावच्छिन्नप्रतियोगिताकजातिसामान्याभाववत्त्वम् । सत्त्वाश्रयावृत्ति
जात्यवृत्तिधर्मवत्त्वं विशेषादित्रयाणाम् । प्रतियोगित्वानुयोगित्वान्यतर-
संबन्धावच्छिन्न समवायनिष्ठावच्छेदकता कभेदववं समवायाभावयोः ।
भावत्वं द्रव्यादिषट्स्य । अत्र भावत्वं च समवाय सामानाधिकरण्य एत-
दन्यतरसंबन्धेन सत्तावत्वम् ( दि० ११ अभावनि० पृ० ४१ )
( ल० व० ) । अनेकत्वे सति भावत्वम् समवायित्वं च द्रव्यादिपञ्च-
कस्य । अनेकत्वे सतीत्यस्य अनेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वम्
इति फलितोर्थ: (मु० १ पृ० ४६ ) । समवायित्वमित्यस्यार्थश्च सम-
वायसंबन्धेन संबन्धित्वम् । तेन सामान्यादौ नाव्याप्तिः (मु० १
पृ० ४६) । अथ वा समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वम् ( ३०
व० पृ० ३) । समवेतसमवेतत्वं द्रव्यादिचतुष्टयस्य । तच्च समवेत-
समवेत वृत्तिपदार्थ विभाजकोपाधिमत्त्वम् ( ल० व० ) ( दि० गु० १
पृ० ४६ ) । समवायेन सत्तावत्वम् कारणत्वं च द्रव्यादित्रयस्य ।
अत्र भाष्यम् । द्रव्यादीनां त्रयाणामपि सत्तासंबन्धः सामान्य विशेष-
वत्त्वम् स्वसमवायः अर्थशब्दाभिधेयत्वम् धर्माधर्मकर्तृत्वं च ( प्रशस्त ●
पृ० ३ ) इति । नित्यानित्योभयवृत्तिसत्ता भिन्नजातिमत्त्वम् कर्मावृत्तिजाति-
मत्त्वं वा द्रव्यगुणयोः । असमवायिकारणत्वं गुणकर्मणोः । समवाय-
कारणत्वं द्रव्यस्य । तत्र द्रव्यत्वम् गुणवत्त्वं च पृथिव्यादीनां नवानां