This page has not been fully proofread.

१९४
 
न्यायकोशः ।
 
ज्ञानादेर भावः
: फलम् (मु० २ पृ० १६२) । अथ वा साधनाप्रसिद्धि-
ग्रहदशायाम् हेतुतावच्छेदक विशिष्टे साध्यव्याप्तिप्रहप्रतिबन्धः फलम्
( नील० २५० २६) । शिष्टं तु व्याप्यत्वासिद्धिशब्दव्याख्यानावसरे
संपादितं तत्तत्र दृश्यम् ।
 
साधनासिद्धिः - साधनाप्रसिद्धिः ।
 
साधर्म्य दृष्टान्तः–
अन्वयव्याप्तिग्रहणस्थलम् । यथा घूमेन बह्वयनुमाने
महानसः । यत्र यत्र धूमस्तत्राग्निर्यथा महानसः इति ( प्र० च० पृ० २८ ) ।
अत्राधिकं तु दृष्टान्तशब्दे अन्वयदृष्टान्तशब्दे च दृश्यम् ।
साधर्म्यनिदर्शनम् - [ क ] अन्वयदृष्टान्तः । [ ख ]
न्येन लिङ्गसामान्यस्यानुविधानदर्शनम् । तद्यथा यत्
दृष्टं यथा शरः इति ( प्रशस्त ० २ १० ४८ ) ।
 
दाहरणम् ।
 
अनुमेयेन सामा-
क्रियावत् तद्रव्यं
[ग ] अन्वय्यु-
-
 
-
 
साधर्म्यनिदर्शनाभासः -- (निदर्शनाभासः ) लिङ्गानुमेयो भयाश्रया सिद्धप-
ननुगत विपरीतानुगतः । यथा यदनित्यं तन्मूर्त दृष्टं यथा परमाणुः यथा
कर्म यथाकाशम् यथा तमो घटवत् यन्निष्क्रियं तदद्रव्यं दृष्टम् इति च
( प्रशस्त० २ पृ० ४८) । एवमन्वयदृष्टान्ताभासशब्दोपि व्याख्येयः ।
साघर्म्यम् – [ क ] समानधर्मः । यथा कमलमिष सुन्दरं मुखम् इत्यादौ
सौन्दर्य मुखकमलयोः साधर्म्यम् । यथा वा षण्णां पदार्थानां साधर्म्य -
वैधर्म्यतस्त्वज्ञानं निःश्रेयसहेतुः ( प्रशस्त ० ) इत्यादौ साधर्म्यशम्दार्थः
( न्या० कन्द० पृ० ६ ) । [ ख ] अनुगतो धर्मः (बै० उ०
११११४ ) । समानो धर्मः इति फलितोर्थः (मु० ११० ४५ ) ।
यथा अस्तित्वम् ज्ञेयत्वम् प्रमेयत्वम् अभिधेयत्वं च द्रव्यादीनां सप्तानां
पदार्थानां साधर्म्य भवति । अत्र ज्ञेयत्वाभिधेयत्वादिशब्दानामीश्वरीयज्ञान-
विषयत्वामिधाविषयत्वादिरूपोर्थः केवलान्वयिस्वोपपत्थर्ये स्वीकर्तव्यः ।
भवति च तदेव सप्तपदार्थानां लक्षणम् (मु० ११० ४५ ) । वस्तुतः
विषयत्वमेव सप्तपदार्थानां लक्षणम् । तेन ईश्वरानङ्गीकर्तृमतेपि जीव-
ज्ञानविषयतादिकमादाय लक्षणसमन्वयः इत्यवधेयम् । यथा वा कारणत्वं