This page has not been fully proofread.

न्यायकोशः ।
 
९९२
 
-
 
साधनम् - १ ( हेतु: ) सिद्धिजनकम् ( दि० गु० ) । अत्र जनकत्वं च
जनकज्ञान विषयत्वम् इति वक्तव्यम् । तेन घूमज्ञानस्यैव सिद्धिजनकत्वेन
घूमे सिद्धिजनकत्वाभावेपि न क्षतिः । यथा पर्वतो वह्निमान् घूमात्
इत्यादौ धूमः साधनम् । २ [ क ] कारणम् ( मथुरा० )। यथा
घटस्य साधनं दण्ड: पटस्य साधनं तन्तुः इत्यादौ साधनशब्दार्थः ।
अत्र साधनत्वं द्विविधम् साक्षात्साधनत्वं परंपरासाधनत्वं चेति । तत्र
साक्षात्साधनत्वं च अव्यवहितपूर्वत्वसंबन्धेन कार्याधिकरणीभूतक्षणनिष्ठा-
त्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्य निरूपकधर्मवत्त्वम् । यथा
स्वर्गोत्पत्ति प्रत्यपूर्वस्य साधनत्वम् । परंपरासाधनत्वं च अव्यवहित-
पूर्वत्वसंबन्धेन कार्याधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानवच्छे-
दकान्यथासिद्ध्यनिरूपकधर्मावच्छिन्नजनकत्वे सति कार्यनियतपूर्ववर्ति-
तावच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वम् ( मथुरा० ) । यथा स्मृतिं
प्रत्यनुभवस्य साधनत्वम् । [ख] इतरकारणकलापे यदतिशयितं कारणम्
तत्साधनम् इति मध्वमतानुयायिन आहुः ( प्र० च० पृ० १४ ) ।
[ग] कारकत्वेनान्वयि साधनम् इति शाब्दिका वदन्ति । ३ सिद्धिः
अनुमितिः । यथा पर्वते धूमेन वह्रिसाधने इत्यादौ साधनपदार्थः ।
यथा वा द्रव्यत्वादेरपि घूमेन साधनात् ( गौ० वृ० ५।१।२७ ) इत्यादौ
साधनशब्दस्यार्थः ।
 
साधनवैकल्यम् – दृष्टान्ते साधनस्यावर्तमानत्वम् । अत्रेदं बोध्यम् । दृष्टान्ते
साधन वैकल्यादयो निग्रहस्थानेन्तर्भवन्ति ( दि० १ ) इति ।
 
-
 
साधनाप्रसिद्धि: ~ ( हेतुदोषः असिद्धिः ) हेतौ हेतुतावच्छेदकस्याभावः ।
यथा पर्वतो वह्निमान् काञ्चनमयधूमात् इत्यादौ धूमनिष्ठः काञ्चनमयत्वा -
भावः साधनाप्रसिद्धि: ( म० प्र० २ पृ० २७ ) । इयं च साधना-
प्रसिद्धिः व्याप्यत्वासिद्धिप्रभेद इति विज्ञेयम् ( नील० २ पृ० २६ )
(मु० २ पृ० १६१) । तल्लक्षणं च साधने साधनतावच्छेदक-
वैशिष्ट्यावगाहिग्रहविरोधिग्रहविषयत्वम् ( ल० व० ) । अत्र काञ्चनमय-
घूमादिहेतु कस्थले हेतुतावच्छे दकविशिष्टहे तोर्ज्ञानाभावात् तद्धेतुकव्याप्ति-
११५ न्या० को०