2023-02-20 00:57:31 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
९९१
व्यक्तं सादृश्य मिष्यते ॥ (चि० ख० ३ पृ० २) इति । अत्र विप्रति-
पत्तिः सादृश्यं च सप्तपदार्थातिरिक्तं वा न वा इति । तत्र सादृश्यं सप्त-
पदार्थातिरिक्तम् इति मीमांसकादय आहुः । तत् तदतिरिक्तः पदार्थो न
भवति इति नैयायिकाः प्राहुः ( चि० ख० ३) । तत्र मीमांसकमते
सादृश्यस्यातिरिक्तत्वे प्रमाणं च सादृश्यं न षड्यावेष्वन्तर्भवति । व्यति-
रेकित्वे सति सामान्येतरवृत्तित्वे च सति सामान्यवृत्तित्वात् अभाववत्
इति । सादृश्यमभावेषि नान्तर्भवति भावत्वेन प्रतीयमानत्वात् इत्यनु-
मानम् । तेन सादृश्यं कृतसप्तपदार्थातिरिक्तं सिद्ध्यति इति । अत्र पद-
प्रयोजनम् । सामान्यत्वे व्यभिचारवारणाय सामान्येतरवृत्तित्व इति पदम् ।
प्रमेयत्वे व्यभिचारवारणाय व्यतिरेकित्व इति पदम् । भावस्त्रे च द्रव्यादि-
षट्ठान्यतमत्वरूपे हेतुमति साध्यस्य सत्त्वान्न व्यभिचारः इति । सादृश्यस्य
सामान्यवृत्तिखे प्रमाणं तु यथा गोत्वं नित्यम् तथाश्वत्वमपि नित्यम् इति
सादृश्यप्रतीतिः । तथा च सादृश्यस्य द्रव्याद्यन्तर्भूतत्वे बाधकमपि यदि
सादृश्यं द्रव्यादावन्तर्भूतं तदा द्रव्यादेः सामान्यावृत्तित्वेन यथा गोवं
नित्यम् तथाश्वत्वम् इत्यबाधित प्रतीतिर्न स्यात् ( दि० १ पृ० २४ ) इति ।
नव्या अपि सादृश्यमतिरिक्तमेव । न च अतिरिक्तत्त्रे पदार्थविभाग-
व्याघातः इति वाच्यम् । तस्य पदार्थविभागस्य साक्षात्परंपरया वा
तत्त्वज्ञानोपयोगिपदार्थमात्र
निरूपणपरत्वात् । एवम् अधिकरणत्वम् विषय-
त्वम् प्रतियोगित्वम् इत्यादिकमप्यतिरिक्त पदार्थः इत्याहुः ( दि० १
पृ० २४ - २८ ) । [ ख ] तद्भिन्नत्वे सति तद्गतभूयोधर्मवस्वम् । तच
स्वरूपसंबन्धविशेषः ( त० व० ) । तथा च सादृश्यं नातिरिक्त मिति
भाव: । तद्भिन्नत्वे सतीत्यस्यार्थस्तु तद्गतभूयोधर्मसदृशधर्मवत्त्वम् । तेन
चन्द्रवन्मुखम् इत्यादौ आह्लादजनकत्वरूपसादृश्यघटकजनकताया जनक-
भेदेन भिन्नतया चन्द्रगता ह्लादजनकत्वस्य चन्द्रमात्रवृत्तितया मुखे तद-
भावेपि न क्षतिः । अत्र चन्द्रवन्मुखम् इत्यादौ धर्मे धर्मसादृश्यं च
जनकतावादिना विज्ञेयम् । स च धर्मोनुगत एव इति । अवशिष्टं तु
तुल्यस्वशब्दार्थे संपादितं तत्र द्रष्टव्यम् । अथ वा तत्र साधारण्येन विद्य-
माना ये भूयांसो धर्माः तद्वत्त्वम् इति । अत्र सादृश्यनिरूपकेतिव्याप्ति-
-