This page has not been fully proofread.

न्यायकोशः ।
 
इति । सांख्यमते तु बुद्धेः साक्षी पुरुषः । अत्र सूत्रम् साक्षात्संबन्धात्
साक्षित्वम् (सांख्य० अ० १ सू० १६१ ) । अत्रार्थे पाणिनिसूत्रम् सा-
क्षाष्टरि संज्ञायाम् (पाणि० ५/२/९१) इति । अत्रायं विवेकः । सुषुप्त्या-
द्यवस्थात्रयसाक्षित्वं तु सांख्यमते बुद्धिनिष्ठसुषुप्यादित्रयद्रष्टृत्वमात्रं पुरुषे
( सांख्य० अ० १ सू० १४८ ) ( सांख्य० मा० १/१६१) ।
मायावादिमते तु तादृशबुद्धिवृत्तीनां प्रकाशनम् ( वेदा०प० ) इति ।
तदुक्तम् जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो
जीवः साक्षित्वेन व्यवस्थितः ॥ ( सांख्य० मा० अ० १ सू० १४८ ) ।
मध्वमतानुयायिनस्तु स्वप्रकाशात्मस्वरूपोनुभवः साक्षी इत्याहुः ( वादा-
वली पृ० २२) । व्यवहारशास्त्रज्ञास्तु विवादविषयप्रमाता साक्षी ।
तत्स्वरूपमुक्तं मनुना समक्षदर्शनात्साक्ष्यं श्रवणा चैव सिद्ध्यति ( मनुल
अ० ८ श्लो० ७४ ) इति । साक्षिप्रयोजनमुक्तं नारदेन संदिग्धेषु तु
कार्येषु द्वयोर्विवदमानयोः । दृष्टश्रुतानुभूतत्वात्साक्षिभ्यो व्यक्तिदर्शनम् ॥
( वीरमित्रो० अ० २ पृ० १४२) । गौतमेनाप्युक्तम् विप्रतिपत्तौ साक्षि
निमित्ता व्यवस्था इति । स च साक्षी द्विविधः कृतः अकृतश्च ।
तत्राद्यः साक्षित्वेनार्थिप्रत्यर्धिम्यां निरूपितः । द्वितीयस्तु ताभ्याम-
निरूपितः । पुनश्च कृतस्य लिखितस्मारितयदृच्छाभिज्ञगूढोत्तरसाक्षि-
भेदेन पञ्चविधत्वम् । अकृतस्य च प्रामादिभेदेन षड्डिधत्वम् । एवं
चैकादशविधाः साक्षिणः इत्याहुः । तथा चोक्तं नारदेन ग्रामश्च प्राड्-
विवाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः स्यादर्शिना
प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेपि साक्षिणः ( वीर-
मित्रो० अ० २ पृ० १४४ ) इति । अत्राधिकं तु नारदोक्तं वीरमित्रो-
दयादौ द्रष्टव्यम् ।
 

 

 
सादृश्यम् - [क] असाधारणान्यतद्गतबहुधर्मवत्वम् (चि० ३१०३ - ४)।
यथा चन्द्रवन्मुखम् घटसदृशः पट: इत्यादौ मुखादावाह्लादकत्वादिना
चन्द्रादिसादृश्यम् (मु० १) (चि० ३ पृ० ४ ) । तदुक्तम् सामा-
न्यान्येव भूयांसि गुणा - ( तुल्या) वयवकर्मणाम् । भिन्न प्रधानसामान्य-