This page has not been fully proofread.

न्यायकोशः ।
 
यथा साक्षात्कारे सुखादीनां करणं मन उच्यते (भा०प० ० ८६)
इत्यादौ साक्षात्कारशब्दस्यार्थः । अत्र साक्षात्कारत्वं च साक्षात्करोमि
इत्यनुगतप्रतीतिसाक्षिको जातिविशेषः ( न्या० म० १ ) । [ ख ]
लौकिकसनिकर्षजन्यं प्रत्यक्षं साक्षात्कार इति केचिदाहुः ।
 
साक्षात्कारि - प्रत्यक्षात्मकं ज्ञानम् । यथा साक्षात्कारिप्रमाकरणं प्रत्यक्षम् ।
साक्षात्कारिणी प्रमा सैवोच्यते येन्द्रियजा ( त० भा० पृ० ५) इत्यादौ
साक्षात्कारिशब्दस्यार्थः ।
 
साक्षात्संबन्धः – पारम्पर्यरहितः संबन्धः । यथा भट्टमते शब्दो द्रव्यम्
साक्षात्संबन्धेनेन्द्रियग्राह्यत्वात् घटवत् ( न्या० म० ४ पृ० ३१ )
इत्यत्र साक्षात्संबन्धशब्दस्यार्थः । अत्र साक्षात्त्वं च इतरपदार्थाप्रति-
योगिकत्वे सत्युद्दिष्टपदार्थ प्रतियोगिकत्वम् इति । साक्षात्संबन्धश्च संयोग
समवाय एतदन्यतरः ( त० प्र० ख० ४ पृ० १२६) । एव-
मन्योपि चिन्त्यः ।
 

 
साक्षी – १ बोद्धृत्वे सति अकर्ता । यथा कलहे प्रवृत्ते कश्चनान्यः पुरुषः
साक्षी । मायावादिवेदान्तिमते उपाध्युपहितं केवलं चैतन्यं साक्षि ।
यथा साक्षी चेताः केवलो निर्गुणश्च (श्रुतिः ) इत्यादौ जीवेश्वरौ साक्षिणो
इति । सन्मते जीवसाक्षीश्वर साक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविष्यम् । तत्र
जीवसाक्षि चान्तःकरणोपहितं चैतन्यम् । तञ्च जीवमेदेन नाना ।
ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूत-
मायाया एकत्वात् इति । जीवेश्वरयोरन्तःकरणमायारूपतदुपाध्यो-
र्जडलेपि तत्तदुपाधिवृत्तिचैतन्यस्यैव अवभासकत्वात्साक्षित्वमुपपद्यते
( वेदा० परि० १ १० १८ ) । माध्वमते तु स्वरूपेन्द्रियं साक्षि
न तु मनः । अत्र साक्षिलक्षणं तु आत्मस्वरूपज्ञानादिव्यजकत्व-
मेव इति स्पष्टम् । अत्रोक्तम् प्रत्यक्षं सप्तविधम् साक्षिषडिन्द्रियभेदात् ।
तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । तस्य विषया आत्मस्वरूपतद्धर्मज्ञान-
सुखादयः भावरूपाविद्या मनस्तमश्च ज्ञानसुखाद्याः कालो व्याकृताकाश-
वेव्यायाः । स च स्वरूपज्ञानादिकं व्यक्ति ( प्र० च० १० १५)