This page has not been fully proofread.

न्यायकोश: 1
 
साकादाहरणं तु चैत्रस्य गुरुकुलम् मैत्रस्य दासभार्या ( महाभाष्ये
२ । १ । १ ) इत्यादि । इदं च शाब्दप्रमितौ प्रयोजकम् । अत एव गौरश्वः
पुरुषो हस्ती इति घटो घटः इति च निराकवाक्यान शाब्दप्रमितिः
इति विज्ञेयम् । अत्र पदानि साकाङ्क्षाणि अर्थाः साकाङ्क्षा वा इति प्रश्ने
उत्तरमाह । अर्थास्तावत् स्वपदश्रोतरि अन्योन्य विषयाकाङ्क्षा जनकत्वेन
साकाङ्क्षाः इत्युच्यन्ते । तद्वारेण तत्प्रतिपादकानि पदान्यपि साकाङ्क्षाणि
इत्युच्यन्ते । यद्वा पदान्येव स्वार्थ प्रतिपाद्यार्थान्तरविषयाकाङ्क्षाजन कानि
इत्युपचारात् साकाहाणि (त० मा० पृ० १८) इति । २ साभिलाषत्वं
साकाङ्क्षत्वम् इति काव्यज्ञा आहुः ।
 
ज्ञानस्य घटत्वाश्रयत्वम् ।
 
साकारत्वम् – १ धर्माश्रयत्वम् ( मू० म० १ ) । यथा अयं घटः इति
स्वनिष्ठप्रकारता निरूपित प्रकारितासंबन्धेन
यत्किंचिद्धर्मविशिष्टत्वम् इत्यर्थः । २ माध्वाः पौराणिकाश्च मूर्ति विशिष्टत्वम् ।
यथा परमात्मनः साकारत्वम् इत्याहुः । अयं भावः । मध्वमते परमा-
स्मनोप्राकृतज्ञानानन्दादिगुणरूपशरीरस्वीकारेण साकारत्वं संगच्छते ।
पौराणिकमते तु अपाञ्चभौतिकेच्छा स्वीकृत लीलाविग्रहवस्त्रेन तस्य साका-
रत्वमुपपद्यते इति ।
 
-
 
साक्षात् - १ प्रत्यक्षम् । यथा साक्षादृष्टो मया हरिः इत्यादौ । केचित्तु
लौकिकप्रत्यक्षम् इत्याहुः । २ [ क ] मायावादिवेदान्तिनस्तु अव्यव-
हितम् (बृह० उप० शांकरभा० ३।४।१ ) । तच्च सद्रूपं चैतन्यं इत्याहुः ।
यथा यत्साक्षादपरोक्षाहझ (बृह० उप० ३।४।१ ) इति श्रुतौ साक्षात्
इत्यस्यार्थः । [ ख ] परंपरासंबन्धराहित्यम् । यथा द्रव्यस्वसाक्षाव्याप्या
जातिः पृथिवीस्वम् इत्यादौ साक्षात्शब्दार्थः । अत्र साक्षाद्व्याप्यत्वं च
तथ्याप्याव्याप्यत्वे सति तद्व्याप्यत्वं बोभ्यम् । यथा च साक्षान्माता
साक्षाद्भगिनी इत्यादौ साक्षात्शब्दार्थः । ३ तुल्यम् । यथा साक्षा-
लक्ष्मीरियं वधूः इत्यादौ साक्षात्शब्दार्थः इति काव्यज्ञा आहुः
( अमरः ३।३।२४२ ) ।
 
क्षात्कार - [ क ] प्रत्यक्षात्मकं ज्ञानम् ( न्या० म० १ पृ० ३ ) ।
 
-