This page has not been fully proofread.

न्यायकोशः ।
 
९८७
 
यो भिमान विशेषः सैबोपलब्धिः । स्रक्चन्दनादिविषयसंनिक र्षादिन्द्रिय-
प्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणाम विशेषः स प्रत्ययः ।
अत एव ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नसंस्कारधर्माधर्माः सर्व एव बुद्धेः
परिणामविशेषाः सूक्ष्ममात्रया प्रकृतावेव वर्तमाना अवस्थाभेदादावि-
र्भवन्ति तिरोभवन्ति च । पुरुषस्तु पुष्करपलाशवनिर्लेपः प्रतिबिम्बते परं
बुद्धौ (वै० उ० ८/१११ पृ० ३५६ ) इति । तन्मते तत्त्वानि पञ्चविं-
शतिः मूलप्रकृतिः १ महत्तत्वम् २ अहंकारः ३ पञ्चतन्मात्राणि शब्द-
स्पर्शरूपरसगन्धाः ४-८ पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशा: ९-१३
पञ्च ज्ञानेन्द्रियाणि चक्षुस्त्वग्रसनघ्राणश्रोत्राणि १४-१८ पञ्च कर्मे-
न्द्रियाणि पायूपस्थपाणिपादवाचः १९ - २३ मनः २४ पुरुष २५ श्चेति
( सांख्यसू० अ० १ सू० ६१) । तत्र चतुर्धा विभागः केवला प्रकृतिः
केवला विकृति: प्रकृतिविकृत्युभयम् अनुभयं चेति । तद्यथोक्तम् मूलप्र
कृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सत्त । षोडशकस्तु विकारो न
प्रकृतिर्न विकृतिः पुरुषः ॥ (सांख्यकारिका ३) इति । एतन्मते परि•
णामवादः । निरीश्वरसांख्यमते परमात्मा न स्वीक्रियते । अत्र शिष्टं तु
मत्कृते षड्दर्शनसार निरुक्तिनाम के प्राकृतभाषाबद्धे चोपन्यासे दृश्यम् ।
३ सांख्यशब्देन ज्ञानवानप्युच्यते । अत्रार्थे संख्या ज्ञानम् तद्वान् संख्यः
(अच् ) स एव सांख्यः इति व्युत्पत्तिर्ज्ञेया। तदुक्तं महाभारते संख्यां
प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः
प्रकीर्तिताः ॥ ( सांख्यभा० पृ० ८) इति ।
 
सांवादिकः संवाददाता । स च नैयायिकः ( जटा० ) ( वाच ० ) ।
सांसिद्धिकम् ~ (द्रवत्वम् ) स्वभावनिर्वृत्तम् । निमित्तान्तराजन्यमित्यर्थः ।
यथा जलनिष्ठं द्रवत्वं सांसिद्धिकम् । हिमादीनां घनीभावः कारण-
विशेषेण । द्रवीभावस्तु सांसिद्धिकः । घृतादीनां तु घनीभावः सांसि-
द्धिकः । द्रवीभावस्तु नैमित्तिकः इति तयोर्विशेषः । शिष्टं तु द्रवत्व-
शब्दव्याख्यानादौ दृश्यम् ।
 
-
 
साकाङ्क्षत्त्वम् – १ अन्योन्यविषयाकाङ्क्षाजनकत्वम् ( त० मा० ४ पृ०
१८) । यथा गामानय इत्यादौ गवानयनयोः साकाङ्क्षत्वम् । नियत-