This page has not been fully proofread.

न्यायकोशः ।
 
प्रवचनसंज्ञा ज्ञेया (सांख्य ० भा० ११ प्रस्ता० पृ० ७ ) । [ग]
नास्तिककपिलप्रणीतो दर्शन विशेषः । अत्रेदं बोध्यम् । नास्तिककपिलेन
स्वयं पूर्वप्रणीतस्य सांख्यप्रवचनसंज्ञकस्य तत्त्वसमासाख्यस्य द्वाविंशति-
(२२) संख्यकस्य संक्षिप्तसूत्रस्य विस्तररूपेण षडध्यायात्मकः अथ
त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्त पुरुषार्थः इत्यारभ्य यद्वा तद्वा तदुच्छित्तिः
पुरुषार्थस्तदुच्छित्तिः पुरुषार्थः इत्येतत्पर्यन्तः सूत्रोपनिबद्धो ग्रन्थो
विरचितः इति । नास्तिककपिलप्रणीतसांख्यस्य पतञ्जलिप्रणीतयोग-
शास्त्रस्य चानुपादेयत्वमुक्तं भारते मोक्षधर्मेषु सांख्यं योगः पाशुपतं
वेदारण्यकमेव च । ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा ॥
( गीता० मध्वमा ० अ० २ श्लो० ३९) इति । सांख्यमतप्रवर्तकश्च
आस्तिकनास्तिक भेदेन द्विविधः । तत्रास्तिको द्वौ देवहूतीपुत्रः कपिल:
सेश्वरसांख्यो योगशास्त्रप्रवर्तकः पतञ्जलिनामा ब्राह्मणश्च । नास्ति-
कस्तु निरीश्वरसांख्यो देवहूतीपुत्रादन्यः कपिलनामा कश्चिद्राह्मणः ।
देवहूतीपुत्रस्तु सांख्य प्रवर्तकः श्रीवासुदेवावतार आस्तिक एव । ऋषिं
प्रसूतं कपिलं यस्तम ज्ञानैर्निभर्ति जायमानं च पश्येत् ( श्वे०
५१२ ) इति श्रुतेः । सिद्धानां कपिलो मुनिः इति स्मृतेश्च । स च
राजयोगाख्यमेकाध्यायं पादचतुष्टयात्मकं अथ योगानुशासनम् इत्यारभ्य
पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चिच्छक्ति-
रिति इत्येतत्पर्यन्तं सूत्रोपनिबद्धं योगशास्त्रं प्रणिनाय इति । अथ कपिल-
मतं संक्षेपेणोच्यते । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । सा चैकेव ।
पुरुषास्तु परं भिद्यन्ते । ते च कूटस्था नित्या अपरिणामिनो नित्य-
चैतन्यस्वभावाः । ते च पङ्गवः । अपरिणामित्वात् । प्रकृतिस्त्वन्धा ।
जडत्वात् । यदा विषयभोगेच्छा प्रकृतिपुरुषभेददिदृक्षा च प्रकृतेर्भवति
तदा सा पुरुषोपरागवशात् परिणमते । तस्याश्चाद्यः परिणामो बुद्धि-
रन्तःकरणविशेषः । बुद्धिरेव महत्तत्त्वम् । सा च बुद्धिर्दर्पणवन्निर्मला ।
तस्याश्च बहिरिन्द्रियप्रणाडिकया विषयाकारो यः परिणतिभेदो घटः इति
पट: इति तत् ज्ञानम् वृत्तिः इति चाख्यायते । स्वच्छायां बुद्धौ
वर्तमानेन ज्ञानेन चैतन्यस्य पुरुषस्य भेदाग्रहात् अहं जानामि इति